________________
२५६
प्रज्ञापनाउपाङ्गसूत्रम्-२- ३४/-/-/५८७
तेषां सम्यक् परिज्ञानाभावात्, द्वीन्द्रियाणां हि मत्यज्ञानं तदपि चास्पष्टमतः प्रक्षेपाहारमपि न ते स्वयं गृह्यमाणमपि सम्यक् जानन्ति चक्षुरिन्द्रियाभावात् न च पश्यन्ति, एवं त्रीन्द्रिया अपि ज्ञानदर्शनवलिकला भावनीयाः,
चतुरिन्द्रियाः ‘अत्थेगइय'त्ति सन्त्यककेये स्वयंगृह्यमाणमप्याहारंप्रक्षेपरूपमपिनजानन्ति, मिथ्याज्ञानित्वात्, तेषामपि हिद्वीन्द्रियाणामिवमत्यज्ञानंतदपिचाविश्पष्टमिति, चक्षुषापुनःपश्यन्ति चक्षुरिन्द्रियसद्भावात्, तथाहि-पश्यन्ति मक्षिकादयो गुडादिकमिति एवमाहारयन्ति, तथा सन्त्येकके चतुरिन्द्रियाये नजानन्ति, मिथ्याज्ञानित्वात्, न पश्यन्तिचअन्धकारादिना चक्षुर्दर्शनस्य व्याहतत्वात् अनाभोगसम्भवाद्वा,
तिर्यक्पञ्चेन्द्रियतिरस्वां चतुर्भङ्गी प्रक्षेपाहारं लोमाहारं चाधिकृत्य भावनीया, तत्र प्रक्षेपाहारमधिकृत्यैवंभावना-स्त्येकके तिर्यक्पञ्चेन्द्रिया येप्रक्षेपमाहारंजानन्ति, सम्यग्ज्ञानितया तेषां यथावस्थितपरिज्ञानात्, पश्यन्ति चक्षुरिन्द्रियभावात् एवमाहारयन्ति १, तथा सन्त्येकके ये जानन्ति पूर्ववत् न च पश्यन्ति चक्षुर्दर्शनस्यान्धकारादिना अनाभोगेन च व्याहतत्वात् २, तथा सन्त्येककेयेनजानन्ति मिथ्याज्ञानितया सम्यक्परिज्ञानाभावात् पश्यन्तिपुनश्चक्षुरिन्द्रियोपयोगात् ३ तथा सन्त्येकके ये नजानन्तिमिथ्याज्ञानित्वान्न च पश्यन्तिपूर्ववत् एवमाहारयन्ति ४ लोमाहारापेक्षया त्वेवं भावना-सन्त्येकके तिर्यक्पञ्चेन्द्रिया ये लोमाहारमपि जानन्ति, विशिष्टावधिज्ञानपरिकलितत्वात्, .. पश्यन्ति तथाविधक्षयोपशमभावत इन्द्रियपाटवस्यातिविशुद्धत्वात् एवमाहारयन्ति १ तथा सन्त्येकके ये न जानन्ति पूर्ववत् न तु पश्यन्ति तथाविधस्येन्द्रियपाटवस्याभावात् २ तथा सन्त्येकके ये न जानन्ति पश्यन्ति पुनस्तद्विषयेन्द्रियपाटवस्य भावात् ३ तथा सन्त्येकके ये न जानन्ति मिथ्याज्ञानित्वात् अवधिविकलत्वात् अवधिविषयातीतत्वाद्वा, नचपशयन्ति तथारूपपाटवाभावात् ४ इति, एवं मनुष्याणामपि लोमाहारप्रक्षेपाहारौ प्रतीत्य चतुर्भङ्गी भावनीया, 'वाणमंतरजोइसियाजहा नेरइया' इति, नैरयिकावधिरिवव्यन्तरज्योतिष्कावधिरपिमनोभक्षित्वेऽप्याहारपुद्गलानामविषयत्वात्,
'वेमाणियाणं पुच्छ' त्ति, वैमानिकानां पृथक् सूत्रं वक्तव्यं, 'वेमाणिया णं भंते !' जे पोग्गले आहारत्ताए गेण्हंति ते किंजाणंतिपासंतिआहारेंति उदाहुनजाणंतिनपासंतिआहारेंति' इति, भगवानाह-'गोयमे'त्यादि, माया पूर्वभवकृता विद्यते येषां ते मायिनो, मायया हि यया तया वा बादररूपकृतया कलुषकर्मप्रादुर्भावः, कलुषे च कर्मण्युदयमागते भवप्रत्ययादप्युपजायमानोऽवधिर्नातिसमीचीनो भवति, एतेचसम्यग्दशो न वेदितव्याः, तथा मिथ्या-विपर्यास्ता दृष्टिः-जिनप्रणीतवस्तुतत्त्वप्रतिपत्तिर्येषां ते मिथ्याध्ष्टयः, मायिनश्च मिथ्याष्टश्चमायिमिथ्यादृष्टयस्ते च ते उपपन्नाश्च मायिमथ्यादृष्टयुपपन्नास्त एव स्वार्थिककप्रत्ययविधानात् मायिमिथ्यादष्टयुपपन्नकास्तेचोपरितनोपरितनग्रैवेयकपर्यवसाना विज्ञेयाः, तेषांयथायोगमवश्यंमिथ्याष्टित्वस्य मायित्वस्य च भावात्, तद्विपरीता अमायिसम्यग्दृष्टयुपपन्नकाः, ते चानुत्तरविमानवासिनः, तेषामवश्यं सम्यग्दृष्टित्वं, पूर्वानन्तरभवेनितरांप्रतनुक्रोधमानमायालोभत्वस्योपशान्तकषायत्वस्य च भावात्, आहच मूलटीकाकारः-“वेवाणियामायिमिच्छद्दिवीउववण्णगा जाव उवरिमगेवेजा, अमायिसम्मद्दिट्टिउववन्नगा अनुत्तरसुरा एव गृह्यन्ते' इति, ‘एवंजहे'त्यादि, एवमुक्तेन प्रकारेण Jain Education International
For Private & Personal Use Only
www.jainelibrary.org