Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 257
________________ २५४ प्रज्ञापनाउपाङ्गसूत्रम्-२- ३४/-/-/५८५ काए फासे रवे सद्दे य मणे य अप्पबहुं । वृ. तदनन्तरं सम्मत्तस्स 'अहिगमे' इति, सम्यकत्वस्याधिगमो नैरयिकादिचतुर्विंशतिदण्डकक्रेमण चिन्तनीयः, 'तत्तो परियारणा य बोद्धव्वा' इति ततः-सम्यकत्वाधिगमप्रतिपादनादूर्ध्वं परिचारणा वक्तव्यताय बोद्धव्या, कस्मिन् विषये इत्याह-काये स्पर्श रूपे शब्दे मनसिच, ततः कायप्रवीचारादीनामल्पबहुत्वं, भावप्रधानोऽयं निर्देशः-अल्पबहुतवं वक्तव्य। मू. (५८६) नेरइयाणंभंते! अनंतराहाराततोनिव्वत्तणाततोपरियाइणयाततोपरिणामया ततोपरियारणयातओपच्छा विउव्वणया?,हता! गो०! नेरइयाणंअनंतराहाराततो निव्वत्तणया ततो परियादिणया ततो परिणामया तओ परियारणया तओ पच्छा विउव्वणया, ___ असुरकुमाराणंभंते! अनंतराहाराततो निव्वत्तणया ततो परियाइणया ततो परिणामया ततो विउव्वणया तओ पच्छा परियारणया?, हंता ! गो० ! असुरकुमारा अनंतराहारा ततो निव्वत्तणया जाव ततो पच्छा परिया०, एवं जाव थणियकुमारा, पुढविकाइयाणंभंते! अनंतराहारा ततो निव्वत्तणयाततो परियाइणया ततो परिणामया ततो परिया० ततोविउ०?, हंता गो० ! तंचेव जाव परियारणया नो चेवणं विउव्वणया, एवं जाव चउरिंदिया, नवरं वाउक्काइया पं-चिंदियतिरिक्खजोणिया मणूसा य जहा नेरइया, वाणमंतरजोइसियवेमाणिया जहा असुरकुमारा वृ. सम्प्रति यथोद्देशंनिर्देश' इतिप्रथमतोऽनन्तरागताहारकवक्तव्यतामभिधित्सुरिदमाह'नेरइया णं भंते!' इत्यादि, नरयिकाः, णमिति वाक्यालङ्कारे, भदन्त!-परमकल्याणयोगिन् ! परमसुखयोगिन् ! वा अनन्तरं-उपपातक्षेत्रप्राप्तिसयमेव आहारयन्तीत्यान्तरागताहाराः, 'ततो निव्वत्तणया' इतिततः-अन्तराहग्रहणादारभ्य क्रमेणशरीरस्येतिगम्यतेनिर्वर्तना-निष्पतिर्भवति, 'ततोपरियाइणया' इति ततः-शरीरनिष्पत्तेरकारभ्यपर्यादानं यथायोगमङ्गप्रत्यङ्गैर्लोमाहारादिना समन्ततः पुद्गलादानं 'ततो परिणामणया' इति ततः पुद्गलादानादनन्तरं तेषां पुद्गलानां परिणामनं-इन्द्रियादिरूपतयापरिणत्यापादानं 'ततोपरियारणया' इति ततः-इन्द्रियादिरूपतया परिणत्यापादानादूध्वं परिचारणा-यथायोगं शब्दादिविषयोपभोगः, ततः पश्चात् विकुर्वणावैक्रियलब्धिवशात् विक्रिया नानारूपा?, एवमुक्ते भगवानाह-हंता ! गोयमे' त्यादि, हन्तेत्यभ्यनुज्ञार्थं, हंता! गौतम! नैरयिका अनन्तराहारा इत्यादि, तदेवं यथा नैरयिकाणामनन्तराहारादिवक्तव्योतोक्ता तथा असुरकुमारादीनामपि स्तनितकुमारपर्यवसानानांवक्तव्या, नवरंतेषांपूर्वविकुर्वणंपश्चात्परिचारणा, तेहि विशिष्टशब्दाधुपभोगवाञ्छायां पूर्वमिष्टं वैक्रिय रूपं कुर्वन्ति पश्चात् शब्दाधुपभोगमित्येष नियमः, शेषास्तु शब्दाधुपभोगसम्पत्तौ सत्यां हर्षवशात् विशिष्टतरशब्दाधुपभोगवाञ्छातः अन्यतो वा कुतश्चित्कारणात्विकुर्वते, ततस्तेषांपूर्वं प्रवीचारणापश्चाद्विकुर्वणेति, पृथिवीकयविषये प्रश्नसूत्रं तथैव उत्तरसूत्रे तावद् वक्तव्यं यावत् परिचारणा, तेषामपि स्पर्शोपभोगसम्भवात्, ‘नो चेवणं विउव्वणय'त्ति न चैव तेषां विकुर्वणा वाच्या, वैक्रियलब्धेरसम्भवात्, ___ “एव'मित्यादि, एवं-पृथिवीकायिकवत् अप्कायादयो वातकायवर्जस्तावदध्येतव्या यावच्चतुरिन्द्रियाः, सर्वेषामपि वैक्रियलब्धेरसम्भवेन सूत्रस्य समानत्वात्, वातकायान् प्रति विशेषमभिधित्सुः समानगमत्वात् पञ्चेन्द्रियतिर्यग्मनुष्याणामपि वातकायैः सहातिदेशमाह Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342