Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 260
________________ पदं-३४, उद्देशक:-, द्वारं - २५७ प्राक् यथा इन्द्रिययसत्के प्रथमोद्देशके भणितं तथा भणितव्यं, तच्च तावत् यावत् सर्वान्तिमं 'से एएण- ट्ठे 'मित्यादिना निगमनवाक्यं, तच्चैवम् ↑ 'तत्थ णं जे ते मायिमिच्छद्दिट्ठिउववन्नगा ते णं न जाणंति न पासंति आहारेंति, तत्थ णं जे ते अमायिसम्मद्दिट्ठिउववण्णगा ते णं दुविहा पन्नत्ता, तंजहा - अनंतरोववण्णगा य परंपरोववण्णगा य, तत्थणं जे ते अनंतरोववण्णगा तेणं न याणंति न पासंति आहारेति, तत्थ णं जे ते परंपरोववण्णगा ते णं दुविहा पं० त०-पत्तगा य अपजत्तगा य, तत्थ णं जे त अपज्जत्तगा ते णं न जाणंति न पासंति आहारेंति, तत्थ णं जे ते पज्जत्तगा ते दुविहा पं०, तं०-उवउत्ता य अणुवउत्ता य, तत्थ णं जे ते अनुवउत्ता ते णं न याणंति न पासंति आहारेति, तत्थ णं जे ते उवउत्ता ते णं जाणंति पासंति आहारेंति से एएणट्टेणं गोयमा ! एवं वृच्छति - अत्येगइया न जाणंति न पासंति आहारेंति अत्येगइया जाणंति पासंति आहारेंति ?” इति, अस्यायमर्थः तत्र ये ते मायिमिध्याध्ष्ट्युपपन्नका उपरितनोपरितनग्रैवेयकपर्यवसाना इत्यर्थः ते मनोभक्ष्याहारयोग्यान् पुद्गलान् न जानन्ति अवधिज्ञानेन, तदवधेस्तेषामविषयत्वात्स, न पश्यन्ति चक्षुषा, तथाविधपाटवाभावात्, , - येऽप्यमायिसम्यग्ध्ष्टयुपपन्नका अनुत्तरविमानवासिन इत्यर्थः, ते द्विधा - अनन्तरोपपन्का परम्परोपपन्नकाश्च, प्रथमसमयोत्पन्ना अप्रथमसमयोत्पन्नाश्चेत्यर्तः अत्र ये ते अनन्तरोपपन्नकास्ते न जानमन्ति न पश्यन्ति, प्रथमसमयोत्पन्नतयाऽवधिज्ञानोपयोगस्य चक्षुरिन्द्रियस्य चाभावात्, किन्त्वेवमेहारयन्ति, तत्र ये ते परम्परोपपन्नकास्ते द्विविधाः, तद्यथा-पर्याप्ता अपर्याप्ताश्च तत्र ये ते अपर्याप्तकास्ते न जानन्ति न च पश्यन्ति, पर्याप्तीनामस्पूर्णत्वेनावध्याद्युपयोगाभावात्, येऽपि पर्याप्तस्तेऽपि द्विविधाः, तद्यथा - उपयुक्ता अनुपयुक्ताश्च तत्र ये ते उपयुक्तास्ते जानन्ति, अवधानवशतो यथाशक्ति नियमेन ज्ञानस्य स्वविषयपरिच्छेदाय प्रवृत्तिसम्भवात्, पश्यन्ति चक्षुषा इन्द्रियपाटवस्य तेषामतिविशिष्टत्वात्, ये त्वनुपयुक्तास्तेन जानन्ति न च पश्यन्ति अनुपयुक्तत्वादेव, उपयुक्ता अपि कथं मनोभक्ष्याहारयोग्यान् पुद्गलान् जानते इति चेत्, उच्यते, —इहावश्यकप्रथमपीठिकायामवधिज्ञानाधिकारेऽभिहितम् - "संखेज्ज कम्मदव्वे लोए थोऊणयं पलियं” अस्यायमर्थः - कार्मणशरीरद्रव्याणि पश्यन् क्षेत्रतो लोकस्य सङ्घयेयान् भागान् पश्यति कालतः स्तोकोनं पल्योपमं यावत्, अनुत्तरास्तु सम्पूर्णां लोकनाडीं पस्यन्ति, 'सभिन्नलोगनालिं पैसंति अनुत्तरा देवा' इति वचनात्, ततस्ते मनोभक्ष्याहारयोग्यानपि पुद्गलान् जानन्ति, आह च मूलटीकाकारः - 'तेजानन्ति पश्यन्ति आहारयन्तिच, विशुद्धत्वादवधेरिन्द्रियविषयस्य चातिविशुद्धत्वात् पश्यन्त्यपि” इति, अत्र इन्द्रियविषयस्तेति - इन्द्रियपाटवस्येतिभावः, उपसंहारवाक्यं प्रतीतं । अध्यवसायचिन्तायां प्रत्येकं नैरयिकादीनामसङ्घयेयान्यध्यवसानानि प्रतिसमयं प्रायोऽन्यान्याध्यवसानभावात्, । सम्यकत्वाद्यधिगमचिन्तां कुर्वन्नाह - 'नेरइयाण' मित्यादि, नैरयिकाः णमिति पूर्ववत् भदन्त किं सम्यकत्वाधिगामिनः- सम्यकत्वप्राप्तिवन्तः, एवं मिथ्यात्वाधिगामिनः सम्यग्मिथ्यात्वाधिगामिनश्च ?, भगवानाह–गौतम ! 'सम्मे' त्यादि सुगमं, त्रिविधाया अपि प्राप्तेर्यथायोगं सम्भवात्, 'एवं जावे' त्यादि, एवं - नैरयिकगतेनाभिलापप्रकारेण निरन्तरं तावद्वक्तवयं यावद्वैमानिकाः, नवरमेकेन्द्रियाणां विकलेन्द्रियाणां केषांचित् सासादनसम्यकत्वमपि लभ्यते तथापि ते 11 17 Jain Education International For Private & Personal Use Only * www.jainelibrary.org

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342