________________
पदं-३४, उद्देशक:-, द्वारं -
२५७
प्राक् यथा इन्द्रिययसत्के प्रथमोद्देशके भणितं तथा भणितव्यं, तच्च तावत् यावत् सर्वान्तिमं 'से एएण- ट्ठे 'मित्यादिना निगमनवाक्यं, तच्चैवम्
↑
'तत्थ णं जे ते मायिमिच्छद्दिट्ठिउववन्नगा ते णं न जाणंति न पासंति आहारेंति, तत्थ णं जे ते अमायिसम्मद्दिट्ठिउववण्णगा ते णं दुविहा पन्नत्ता, तंजहा - अनंतरोववण्णगा य परंपरोववण्णगा य, तत्थणं जे ते अनंतरोववण्णगा तेणं न याणंति न पासंति आहारेति, तत्थ णं जे ते परंपरोववण्णगा ते णं दुविहा पं० त०-पत्तगा य अपजत्तगा य, तत्थ णं जे त अपज्जत्तगा ते णं न जाणंति न पासंति आहारेंति, तत्थ णं जे ते पज्जत्तगा ते दुविहा पं०, तं०-उवउत्ता य अणुवउत्ता य, तत्थ णं जे ते अनुवउत्ता ते णं न याणंति न पासंति आहारेति, तत्थ णं जे ते उवउत्ता ते णं जाणंति पासंति आहारेंति से एएणट्टेणं गोयमा ! एवं वृच्छति - अत्येगइया न जाणंति न पासंति आहारेंति अत्येगइया जाणंति पासंति आहारेंति ?” इति, अस्यायमर्थः तत्र ये ते मायिमिध्याध्ष्ट्युपपन्नका उपरितनोपरितनग्रैवेयकपर्यवसाना इत्यर्थः ते मनोभक्ष्याहारयोग्यान् पुद्गलान् न जानन्ति अवधिज्ञानेन, तदवधेस्तेषामविषयत्वात्स, न पश्यन्ति चक्षुषा, तथाविधपाटवाभावात्,
,
- येऽप्यमायिसम्यग्ध्ष्टयुपपन्नका अनुत्तरविमानवासिन इत्यर्थः, ते द्विधा - अनन्तरोपपन्का परम्परोपपन्नकाश्च, प्रथमसमयोत्पन्ना अप्रथमसमयोत्पन्नाश्चेत्यर्तः अत्र ये ते अनन्तरोपपन्नकास्ते न जानमन्ति न पश्यन्ति, प्रथमसमयोत्पन्नतयाऽवधिज्ञानोपयोगस्य चक्षुरिन्द्रियस्य चाभावात्, किन्त्वेवमेहारयन्ति, तत्र ये ते परम्परोपपन्नकास्ते द्विविधाः, तद्यथा-पर्याप्ता अपर्याप्ताश्च तत्र ये ते अपर्याप्तकास्ते न जानन्ति न च पश्यन्ति, पर्याप्तीनामस्पूर्णत्वेनावध्याद्युपयोगाभावात्, येऽपि पर्याप्तस्तेऽपि द्विविधाः, तद्यथा - उपयुक्ता अनुपयुक्ताश्च तत्र ये ते उपयुक्तास्ते जानन्ति, अवधानवशतो यथाशक्ति नियमेन ज्ञानस्य स्वविषयपरिच्छेदाय प्रवृत्तिसम्भवात्, पश्यन्ति चक्षुषा इन्द्रियपाटवस्य तेषामतिविशिष्टत्वात्, ये त्वनुपयुक्तास्तेन जानन्ति न च पश्यन्ति अनुपयुक्तत्वादेव, उपयुक्ता अपि कथं मनोभक्ष्याहारयोग्यान् पुद्गलान् जानते इति चेत्, उच्यते,
—इहावश्यकप्रथमपीठिकायामवधिज्ञानाधिकारेऽभिहितम् - "संखेज्ज कम्मदव्वे लोए थोऊणयं पलियं” अस्यायमर्थः - कार्मणशरीरद्रव्याणि पश्यन् क्षेत्रतो लोकस्य सङ्घयेयान् भागान् पश्यति कालतः स्तोकोनं पल्योपमं यावत्, अनुत्तरास्तु सम्पूर्णां लोकनाडीं पस्यन्ति, 'सभिन्नलोगनालिं पैसंति अनुत्तरा देवा' इति वचनात्, ततस्ते मनोभक्ष्याहारयोग्यानपि पुद्गलान् जानन्ति, आह च मूलटीकाकारः - 'तेजानन्ति पश्यन्ति आहारयन्तिच, विशुद्धत्वादवधेरिन्द्रियविषयस्य चातिविशुद्धत्वात् पश्यन्त्यपि” इति, अत्र इन्द्रियविषयस्तेति - इन्द्रियपाटवस्येतिभावः, उपसंहारवाक्यं प्रतीतं । अध्यवसायचिन्तायां प्रत्येकं नैरयिकादीनामसङ्घयेयान्यध्यवसानानि प्रतिसमयं प्रायोऽन्यान्याध्यवसानभावात्, ।
सम्यकत्वाद्यधिगमचिन्तां कुर्वन्नाह - 'नेरइयाण' मित्यादि, नैरयिकाः णमिति पूर्ववत् भदन्त किं सम्यकत्वाधिगामिनः- सम्यकत्वप्राप्तिवन्तः, एवं मिथ्यात्वाधिगामिनः सम्यग्मिथ्यात्वाधिगामिनश्च ?, भगवानाह–गौतम ! 'सम्मे' त्यादि सुगमं, त्रिविधाया अपि प्राप्तेर्यथायोगं सम्भवात्, 'एवं जावे' त्यादि, एवं - नैरयिकगतेनाभिलापप्रकारेण निरन्तरं तावद्वक्तवयं यावद्वैमानिकाः, नवरमेकेन्द्रियाणां विकलेन्द्रियाणां केषांचित् सासादनसम्यकत्वमपि लभ्यते तथापि ते
11 17
Jain Education International
For Private & Personal Use Only
* www.jainelibrary.org