________________
पदं-२८, उद्देशकः-२, द्वारं-१
__
२२३ हारए, एवं नेरइए जाव असुरकुमारे जाव वैमाणिए, सिद्धे णं भंते ! किं आहारए अनाहारए?, गो०! नो आहारए अनाहारए,
जीवाणं भंते! किं आहारया अनाहारया? गो०! आहारयाविअनाहारयावि, नेरइयाणं! पुच्छा, गो०! सब्वेवि ताव होजा आहारया १ अहवा आहारगा य अनाहारए य २ अहवा आहारगा य अनाहारगाय ३, एवं जाव वेमाणिया, नवरं एगिदिया जहा जीवा,
सिद्धाणं पुच्छा, गो०! नो आहारगा अनाहारगा
वृ. 'जीवे णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-'गौतमे'त्यादि, गौतम ! स्यात-कदाचिदाहारकः कदाचिदनाहारकाः, कथमितिचेत्?,उच्यते, विग्रहगतौकेवलिसमुद्घाते शैलेश्यवस्थायां सिद्धत्वे चानाहारकाः, शेषास्ववस्थास्वाहारकः, उक्तंच॥१॥ “विग्गहगइमावन्ना केवलिणो समोहया अजोगीय।
सिद्धा य अनाहारा सेसा आहारगा जीवा ।।" तदेवं समामान्यतो जीवचिन्तां कृत्वेदानीं नैरयिकादिचतुर्विंशतिदण्डकक्रमेणाहारकानाहारकचिन्तां करोति-'नेरइएणंभंते! किं आहारए' इत्यादि सुगम, तदेवंसामान्यतोजीवपदे नैरयिकादिषुचैकवचनेन आहारकानाहारकत्वचिन्ता कृता, सम्प्रतिबहुवचनेनतांचिकीर्षुराह_ 'जीवाणंभंते!' इत्यादिप्रश्नसूत्रंसुगम, भगवानाह-गौतम! आहारकाअपिअनाहारका अपि, सदैव बहुवचनविशिष्टा उभयेऽपि लभ्यन्ते इति भावः, तथाहि-विग्रहगतिव्यतिरेकेण शेषकालं सर्वेऽपि संसारिणो जीवा आहारकाः", विग्रहगतिस्तु क्वचित् कदाचित् कस्यचित्तु भवतीति सर्वकालमपि लभ्यमाना सा प्रतिनियतानामेव लभ्यते तत आहारकेषु बहुवचनं, अनाहारका अपि सिद्धाः सदैव लभ्यन्ते,तेचाभव्येभ्योऽनन्तगुणाः, अन्यच्च-सर्वकालमेकैकस्य निगोदस्य प्रतिसमयमसङ्खयेयभागो विग्रहगत्यापन्नो लभ्यते, ततोऽनाहारकेष्वपि बहुवचनं,
नैरयिकसूत्रे सर्वेऽपि तावद्भवेयुराहारकाः १, किमुक्तं भवति?-कदाचिनैरयिकाः सर्वेप्याहारका एव भवन्ति, न त्वेकोऽप्यनाहारकः, कथमिति चेत्, उच्यते, उपपातविरहात्, तथाहि-नैरयिकाणामुपपातविरहोद्वादशमुहूर्ताः, एतावतिचान्तरेपूर्वोत्पन्नविग्रहगत्यापन्नाअपि आहारका जाताः, अन्यस्त्वनुत्पद्यमानत्वात्अनाहारको न सम्भवतीति, अथवा आहारका अनाहारकाश्च २ ___ आहारकपदे बहुवचनंअनाहारकपदे एकवचनमिति भावः, कथमेष भङ्गोघटामियतीति चेत्, उच्यते, इहनरकेषुजन्तुः कदाचिदेक उत्पद्यतेकदाचिदद्वौ कदाचित्त्रयश्चत्वारोयावत्सङ्ख्याता असङ्ख्याता वा, तत्रयदा एक उत्पद्यतेसोऽपिचविग्रहगत्यापन्नोऽपि भवतिअन्येच पूर्वोत्पन्नतया आहारकाअभवन्तदा एष भङ्गो लभ्यते, तृतीयभङ्गमाह-अहवा आहारगायअनाहारगाय ३, अत्रोभयत्रापिबहुवचनं, एष च भङ्गो यदा बहवो विग्रहगत्योत्पद्यन्ते तदा द्रष्टव्यः, शेषभङ्गकास्तु न सम्भवन्ति, आहारकपदस्य नैरयिकाणां सर्वदैव बहुवचनविषयतया लभ्यमानत्वात्, एवमसुरकुमारादिषुस्तनितकुमारापर्यवसानेषुद्वीन्द्रियादिषुचवैमानिकपर्यन्तेषुप्रत्येकंभङ्गत्रिकं भावनीयं, उपपातविरहभावतःप्रथमभङ्गस्य एकादिसङ्खतयोत्पत्तेःशेषस्य च भङ्गद्वयस्य सर्वत्रापि लभ्यमा-नत्वात्, एकेन्द्रियेषुपुनःपृथिव्यप्तेजोवायुवनस्पतिरूपेषुप्रत्येकमेषएवैको भङ्गःआहारकाः अनाहारकाअपि, पृथिव्यप्तेजोवायुषुप्रत्येक्प्रतिसमयमसङ्खायातानांवनस्पतिषुप्रतिसमयमनन्तानां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org