________________
२२४
प्रज्ञापनाउपाङ्गसूत्रम्-२-२८/२/१/५५९ विग्रहगत्योत्पद्यमानानां लभ्यमानतया अनाहारकपदेऽपि सदैव तेषु बहुवचनसम्भवात्, तथा चाह-‘एवं जाव वेमाणिया नवरं एगिदिया जहा जीवा' इति,
एवं-नैरयिकोक्तभङ्गप्रकारेण शेषा अप्यसुरकुमारादयस्तावद्वक्तव्या यावद्वैमानिकाः, नवरमेकेन्द्रियाः पृथिव्यप्तेजोवायुवनस्पतिरूपाःप्रत्येकंयथाउभयत्रापिबहुवचने जीवाउक्तास्तथा वक्तव्याः, सिद्धेष्वेक एव भङ्गोऽनाहारक इति, सकलशरीरप्रहाणतस्तेषामाहारासम्भवात्, बहूनां च सदा भावात् इति, गतंप्रथमं द्वारं ॥
-:पदं-२८-उद्देशकः-२दारं-२ "भव":मू. (५६०) भवसिद्धिएणंभंते! जीवे किं आहारते अनाहारते?, गो०! सिय आहारते सिय अनाहारए, एवं जाव वेमाणिए भवसिद्धिया णंभंते! जीवा किं आहारगा अना०? गो०! जीवेगिंदियवज्जो तियभंगो, अभवसिद्धिएविएवं चेव,
नोभवसिद्धिएनोअभवसिद्धिए णं भंते ! जीवे किं आहारए अनाहारए?, गो० ! नो आहारएअनाहारए, एवं सिद्धेवि, नोभवसिद्धियनोअभवसिद्धियाणंभंते! जीवा किंआहारगा अनाहारगा?, गो० ! नो आहारगा अनाहारगा, एवं सिद्धेवि ।
वृ.द्वितीयंभव्यद्वारभिधित्सुराह-"भवसिद्धिएणंभंते!' इत्यादि, भवैः सङ्ख्यातैरसङ्ख्यायतैरनन्तैर्वा सिद्धिर्यस्यासौ भवसिद्धिको भव्य;, स कदाचिदाहारकः कदाचिदनाहारकः, विग्रहगत्याद्यवस्थायां अनाहारकः शेषकालं त्वाहारकः, एवं चतुर्विंशतिदण्डकेऽपि प्रत्येकं वाच्यं, तथा चाह-“एवं जाव वेमाणिए' अत्र च सिद्धविषयं सूत्रं न वक्तव्यं, मोक्षपदप्राप्ततया तस्य भवसिद्धिकत्वायोगात्, अत्रैव बहुवचननेनाहारकानाहारकत्वचिन्तां चिकीर्षुराह
‘भवसिद्धियाणंभंते!' इत्यादि, अत्राप्याहारकद्वारइवजीवपदेएकेन्द्रियेषुचप्रत्येकमुभयत्र बहुवचनेनैक एव भङ्गो, यथा आहारका अपि अनाहारका अपि, शेषेषु नैरयिकादिषु स्थानेषु भङ्गत्रिकं, कदाचित्केवलाआहारका एवन त्वेकोऽप्यनाहारकः, अथवा कदाचिदाहारकाएकोऽनाहारकः, अथवाआहारकाअपिअनाहारकाअपिउभयत्रापिबहुवचनं, तथाचाह-'जीवेगिंदियवज्जो तियभंगो' इति, यथा च भवसिद्धिके एकस्मिन् बहुषु चाहारकानाहारकत्वचिन्ता कृत तथा अभवसिद्धिकेऽपि कर्तव्या, उभयत्राप्येकवचने बहुवचने च भङ्गसङ्ख्यायाः सर्वत्रापि समानत्वात्, तथा चाह
'अभवसिद्धिए एवं चेव' अभवसिद्धिकेऽपि भवसिद्धिक इव एकवचने बहुवचने च वक्तव्यमिति, यस्तु न भवसिद्धिको नाप्यभवसिद्धिकः स सिद्धः, स हि भवसिद्धिको न भवति, भवातीतत्वात्, अभवसिद्धिकस्तु रूढ्या यः सिद्धिगमनयोग्यो न भवति स उच्यत, ततोऽभवसिद्धिकोऽपिन भवति, सिद्धिप्राप्तत्वात्, तथाचसतिनोभवसिद्धिकनोअभवसिद्धिकत्वचिन्तायां द्वे एव पदे, तद्यथा-जीवपदं सिद्धिपदं च, उभयत्राप्येकवचने एक एव भङ्गोऽनाहारक इति, बहुवचनेऽप्येक एवानाहारका इति।
-: पदं-२८, उद्देशकः-२-दारं-३ “संजी":मू. (५६१) सण्णी णं भंते ! जीवे किं आहारए अनाहारए?, गो० ! सिय आ० सिय अना०, एवं जाव वेमाणिए, नवरं एगिंदियविगलिंदिया नो पुच्छिजंति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org