________________
पदं-२८, उद्देशकः-२, द्वारं-३
२२५
सण्णी णं भंते ! जीवा किं आहारगा अनाहारगा?, गो० ! जीवाइओ तियभंगो जाव वेमाणिया, असण्णी णं भंते ! जीवे किं आहारए अनाहारए?, गो० ! सिय आ० सिय अना० एवं नेरइए जाव वाणमंतरे, जोइसियवेमाणिया न पुच्छिजंति,
असण्णीणं भंते ! जीवा किं आ० अना०?, गो०! आहारगावि अनाहारगावि एगो भंगो, असण्णी णंभंते! नेरइया किं आहारया अना०?, गो०! आहारगा वा १ अनाहारगावा २ अहवा आहारएयअनाहारएय३आहारएयअनाहारयाय ४ अहवा आहारगाय अनाहारए य५ अहवा आहारगाय अनाहारगाय ६ एवं एते छब्भंगा, एवं जाव थणियकुमारा, एगिदिएस अभंगतं, बेइंदिय जाव पंचिंदियतिरिक्खजोणिएस तियभंगो, मणूसवाणमंतरेसु छन्भंगा,
नोसण्णीनोअसण्णी णं भंते ! जीवे किं आ० अना०?, गो० ! सिय आहारए सिय अनाहारए य, एवं मणूसेवि, सिद्धे अनाहारते, पुहुत्तेणं नोसण्णीनोअसण्णी जीवा आहारगावि अनाहारगावि, मणूसेसु तियभंगो, सिद्धा अनाहारगा।
वृ. संज्ञिद्वारे-'सन्नीणंभंते!' इत्यादिप्रश्नसूत्रंसुगम, निर्वचनसूत्रमाह- गोयमे'त्यादि, विग्रहगतावनाहारकः शेषकालमाहारकः, ननु संज्ञी समनस्क उच्यते, विग्रहगतौ च मनो नास्ति ततः कथं संज्ञी सन्ननाहारको लभ्यते ?, उच्यते, इह विग्रहगत्यापनोऽपि संघ्यायुष्कवेदनात् संज्ञी व्यवहियते, यथा नारकायुष्कवेदनान्नारकस्ततो न कश्चिद्दोषः,
__ “एव'मित्यादि, एवमुपदर्शितेन प्रकारेण तावद् वक्तव्यं यावद्वैमानिको-वैमानिकसूत्रं, नवरमेकेन्द्रिया विकलेन्द्रिया न प्रष्टव्याः, किमुक्तं भवति ?-तद्विषयं सूत्रं सर्वथा न वक्तव्यं, तेषाममनस्कतया संज्ञित्वायोगात्,
बहुवचनचिन्तायां जीवपदे नैरयिकादिपदेषु च प्रत्येकं सर्वत्र भङ्गत्रयं, तद्यथा-सर्वेऽपि तावद्भवेयुराहारकाः १ अथवाआहारकाश्च अनाहारकश्च२ अथवाआहारकाश्च अनाहारकाच ३, तथा चाह-'जीवातीतो तियभंगोजाव वेमाणिया' इति, तत्र सामान्यतो जीवपदे प्रथमभङ्गः सकललोकापेक्षया संज्ञित्वेनोत्पातविरहाभावातत् द्वितीयभङ्ग एकस्मिन् संज्ञिनि विग्रहगत्यापन्ने तृतीयभङ्गो बहुषु संज्ञिषु विग्रहगत्यापन्नेषु, एवं नैरयिकादिपदेष्वपि भङ्गभावना कार्या,
'असण्णी णं भंते !' इत्यादि, अत्रापि विग्रहगतावनाहारकः शेषकालमाहारकः, ‘एवं जाव वाणमंतरे' इति एवं-सामान्यतो जीवपद इव चतुर्विंशतिदण्डकक्रमेण तावत् वक्तव्यं यावद्वानमन्तरो-वानमंतरविषयं सूत्र, अथ नैरयिका भवनपतयो वानमन्तराश्च कथमसंज्ञिनो येनासंज्ञिसूत्रे तेऽपि पठ्यन्ते इति?, उच्यते, इह नैरयिका भवनपतयोव्यन्तराश्चासंज्ञिभ्योऽपि उत्पद्यन्ते संज्ञिभ्योऽपि, असंज्ञिभ्यश्चउत्पद्यमाना असंज्ञिन इतिव्यवद्रियन्ते संज्ञिभ्य उत्पद्यमानाः संज्ञिनः, ततोऽसंज्ञिसूत्रेऽपितेउक्तप्रकारेणपठ्यन्ते, ज्योतिष्कवैमानिकास्तुसंज्ञिभ्य एवोत्पद्यन्ते नासंज्ञिभ्य इति असंज्ञित्वव्यवहाराभावादिह ते न पठ्यन्ते, तथा चाह
'जोइसियवेमाणिया न पुच्छिजंति' किमुक्तं भवति ?-तद्विषयं सूत्रं न वक्तव्यं, तेषामसंज्ञित्वाभावादिति, बहुवचनचिन्तायांसामान्यतोजीवपदे एक एव भङ्गः, तद्यथा-आहारका अपिअनाहारका अपि,प्रतिपसमयमेकेन्द्रियाणामनन्तानां विग्रहगत्यापन्नानामत एवानाहारकाणां सदैव लभ्यमानतया अनाहारकपदेऽपि सर्वदा बहुवचनभावात्, नैरयिकपदे षट् भङ्गाः, तत्र [11 15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org