SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २२६ प्रज्ञापनाउपाङ्गसूत्रम्-२- २८/२/३/५६१ प्रथमो भङ्ग आहारका इति, अयं च भङ्गो यदाऽन्योऽसंज्ञिनारकः उत्पद्यमानो विग्रहगत्यापन्नोन लभ्यते पूर्वोत्पन्नास्त्वसंज्ञिनः सर्वेऽप्याहारका जातास्तदा लभ्यते, द्वितीयोऽनाहारका इति, एष यदा पूर्वोत्पन्नोऽसंज्ञी नारक एकोऽपि न विद्यते उत्पद्यमानास्तु विग्रहत्यापन्ना बहवो लभ्यन्ते तदा विज्ञेयः, तृतीय आहारकश्च अनाहारकश्च, द्वित्वेऽपि प्राकृते बहुवनचमिति बहुवचनचिन्तायामेषोऽपि भङ्गः समीचीन इत्युपन्यस्तः, तत्र यदा चिरकालोत्पन्न एकोऽसंज्ञी नारको विद्यते अधुनोत्पद्यमानोऽपि विग्रहगत्यापन एकस्तदाऽयं भङ्गः, चतुर्थः आहारकश्च अनाहारकाश्च एषचिरकालोत्पन्ने एकस्मिन्नसंज्ञिनि नारके विद्यमाने अधुनोत्पद्यमानेषुअसंज्ञिषु विग्रहत्यापन्नेषुद्रष्टव्य, पञ्चमः-आहारकाश्चअनाहारकश्च,अयंचिरकालोत्पन्नेषुबहुषुअसंज्ञिषु नारकेषु सत्सु अधुनोत्पद्यमाने विग्रहगत्यापने एकस्मिन्नसंज्ञिनि विज्ञेयः, षष्ठ आहारकाश्च अनाहारकाच, एष बहुषु चिरकालोत्पन्नेषूत्पद्यमानेषु चासंज्ञिषु वेदितव्यः, ___ “एवमेतेछब्मंगा एवमुपदर्शितप्रकारेण एतेषट्भंगाः, तद्यथा-आहारकपदस्य केवलस्य बहुवचनेनैकः १,अनाहारकपदस्य केवलस्य बहुवचनेन द्वितीयः२,आहारकपदस्यानाहारकपदस्य च युगपत्प्रत्येकमेकवचनेन तृतीयः३, आहारकपदस्यैकवचनेन अनाहारकपदस्य बहुवचनेन चतुर्थः ४,आहारकपदस्यबहुवचनेनअनाहारकपदस्यैकवचनेनपञ्चमः ५, उभयत्रापिबहुवचनेन षष्ठः ६, शेषास्तुभङ्गानसम्भवन्ति, बहुवचनचिन्तायाः प्रक्रान्तत्वात्, एतेचषट्भङ्गा असुरकुमारादिष्वपि स्तनितकुमारपर्यवसानेषु वेदितव्याः, तथा चाह-'एवं जाव थणियकुमारा' _ 'एगिदिएसु अभंगय'मिति एकेन्द्रियेषु पृथिव्यपतेजोवायुवनस्पतिरूपेष्वभङ्गकभङ्गकाभाव एक एव भङ्ग इत्यर्थः,सचायं-आहारका अपिअनाहारका अपि, तत्राहारका बहवः सुप्रसिद्धा;, अनाहारका अपि प्रतिसमयं पृथिव्यप्तेजोवायवः प्रत्येकमसङ्ख्येयाः प्रतिसमयं वनस्पतयोऽनन्ताः सर्वकालं लभ्यन्ते इति तेऽपिबहवः सिद्धाः, _ 'द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियतिर्यक्पञ्चेन्द्रियेषुप्रत्येकंभङ्गत्रिकं, तद्यथा-आहारकाअथवा आहारकाश्च अनाहारकश्च अथवा आहारकाश्च अनाहारकाच, तत्र द्वीन्द्रियान् प्रति भावनायदा द्वीन्द्रिय एकोऽपि विग्रहगत्यापन्नो न लभ्यते तदा पूर्वोत्पन्नाः सर्वेऽप्याहारका इति प्रथमो मङ्गः, यदा पुनरेको विग्रहगत्यापन्नस्तदा पूर्वेसर्वेऽप्याहारका उत्पद्यमानस्त्वेकोऽनाहारक इति, यदा तूत्पद्यमाना अपि बहवो लभ्यन्ते तदा तृतीयः, एवं त्रीन्द्रियचतुरिन्द्रियतिर्यक्पञ्चेन्द्रियेष्वपि भावना कर्तव्या, मनुष्यव्यन्तरेषुषट्भङ्गाः तेच नैरयिकेष्विव भावनीयाः, तथा चाह-'बेइंदिय जाव पंचिंदियतिरिक्खजोणिएसुतियभंगो, मणूसवाणमंतरेसुछब्भंगा' इति, नोसंज्ञीनोअसंज्ञी चकेवली सिद्धश्च ततो नोसंज्ञिनोअसंज्ञित्वचिन्ताणां त्रीणि पदानि, तद्यथा-जीवपदं मनुष्यपदं सिद्धपदं च, तत्र जीवपदे सूत्रमाह 'नोसण्णीनोअसण्णीणंभंते!जीवे' इत्यादि, स्यात् कदाचिदाहारकः केवलिनःसमुद्घाताद्यवस्थाविरहे आहारकः (कत्वात्), स्यात्-कदाचिदनाहारकः, समुद्घातावस्थायांअयोगित्वावस्थायां सिद्धावस्थायांवा भावनीयं, 'सिद्धे अनाहारए' इति सिद्धे-सिद्धविषये सूत्रे 'अनाहारए' इति वक्तव्यं, पुहुत्तेणं'तिपृथक्त्वेन बहुत्वेन चिन्तायामिति प्रक्रमः, 'आहारगाविअनाहारगावि' तत्राहारका अपिबहूनांकेवललिनांसमुद्घातद्यवस्थारहितानां सदैव लभ्यमानत्वात्, अनाहारका अपि सिद्धानां सदैव भावात्तेषां चानाहारकत्वादिति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy