________________
पदं-२८, उद्देशकः-२, द्वारं-३
२२७ 'मणुस्सेसु तियभंगो' इति मनुष्यविषयं भङ्गत्रिकं, तद्यथा-आहारका एष भङ्गो यदा न कोऽपिकेवली समुद्घाताद्यवस्थागतोभवति, अथवाआहारकाश्चअनाहारकश्च एषभङ्गएकस्मिन् केवलिनि समुद्घाताद्यवस्थागते सति लभ्यते, अथवा आहारकाश्च अनाहारकाश्च एष बहुषु केवलसिसमुद्घातद्यवस्थागतेषु सत्सुवेदितव्यः । लेश्याद्वारे सामान्यतः सलेश्यसूत्रमाह
-पदं-२८, उद्देशकः-२-दारं-४- "लेश्या":मू. (५६२) सलेसेणंभंते! जीवे किं आहारए अनाहारए ?, गो०! सिय आहारए सिय अनाहारए, एवं जाव वेमाणिते,
सलेसा णं भंते ! जीवा किं आहारगा अनाहारगा?, गो०! जीवेगिंदियवजो तियभंगो, एवं कण्हलेसावि नीललेसावि काइउलेसावि जीवेगिंदियवज्जो तियभंगो, तेउलेसाए पुढविआउवणस्सइकाइयाणंछब्भंगा, सेसाणंजीवादिओतियभंगोजेसिंअत्थितेउलेसा, पम्हलेसाए सुक्कलेसाए य जीवादिओ तिभंगो,
अलेसा जीवा मणुस्सा सिद्धा य एगत्तेणवि पुहुत्तेणवि नो आहारगा अनाहारगा।
वृ. 'सलेसेणंभंते! जीवे इत्यादि, इदं सामान्यतोजीवसूत्रमिव भावनीयं, अत्रापि सिद्धसूत्रं नवक्तव्यं, सिद्धानामलेश्यत्वात्, बहुवचनचिन्तायांजीवपदे एकेन्द्रियेषुचपृथिव्यादिषुप्रत्येकमेक एव भङ्गस्तद्यथा-आहारका अपि अनाहारका अपि, उभयेषामपि सदाबहुत्वेन लभ्यमानत्वात्, शेषेषु तु नैरयिकादिषु पदेषु तु प्रत्येकं भङ्गत्रिकं, तद्यथा-सर्वेऽपि तावद्भवेयुराहारकाः १, अथवा आहारकाश्च अनाहारकश्च २, अथवा आहारकाश्च अनाहारकाश्च ३, अमीषांच भावना प्राग्वत्, तथा चाह-'जीवेगिंदियवज्जो तियभंगो' इति, “एव'मित्यादि, एवं यथा सामान्यतः सलेश्यसूत्रमुक्तंतथा कृष्णलश्याविषयमपिनीललेश्याविषयमपिकापोतलेश्याविषयमपि सूत्रं वक्तव्यं, सर्वत्र सामान्यतो जीवपदे एकेन्द्रियेषु च प्रत्येकमभङ्गक, शेषपक्षे भङ्गत्रिकं, तेजोलेश्याविषयमपि सूत्रमेकत्वे प्राग्वत्, बहुत्वेन पृथिव्यबवनस्पतिषु षट् भङ्गाः, तेषु कथं तेजोलेश्यासम्भवइतिचेत्?, उच्यते, भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानादेवानांतेजोलेश्यावतां तत्रोत्पादभावात्,
उक्तंतचास्याएव भगवत्याःप्रज्ञापनायाश्च ० जेणेतेसुभवणवइवाणमंतरजोइसियसोहम्मीसाणया देवा उववज्जति तेणं तेउलेस्सा लब्मइ” इति, तेषट्भङ्गा इमे-सर्वे आहारकाः १ अथवा सर्वे अनाहारकाः२ अथवाआहारकश्चानाहारकश्च ३ अथवा आहारकश्च अनाहारकाच ४अथवाआहारकाश्चअनाहारकश्च५अथवाआहारकाचानाहरकाश्च ६,शेषाणांजीवपदादारभ्य सर्वत्रापि भङ्गत्रिकं, तथा चाह____ 'तेउलेस्साए पुढविआउवणस्सइकाइयाणंछब्मंगा, सेसाणं जीवाईओ तियभंगो' इति, आह-किं सर्वेषामविशेषेणजीवपदादारभ्य भङ्गत्रिकमुत केषांचिदत आह-'जेसिंअत्थितेउलेसा' इति, येषामस्ति तेजोलेश्या तेषामेव भङ्गत्रिकं वक्तव्यं, न शेषाणां, एतेन किमावेदितं भवति नैरयिकविषयं तेजोवायुविषयं द्वित्रिचतुरिन्द्रियविषयं च तेजोलेश्यासूत्रं न वक्तव्यमिति, तथा पद्मलेश्या शुक्ललेश्या च येषां सम्भवति तद्विषयंतयोः सूत्रं वक्तव्यं, तत्र पद्मलेश्या शुक्ललेश्या च तिर्यक्पञ्चेन्द्रियेषु मनुष्यषु वैमानिकेषु च लभ्यते न शेषेष्विति तयोः प्रत्येकं चत्वारि पदानि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org