________________
२२८
प्रज्ञापनाउपाङ्गसूत्रम्-२- २८/२/४/५६२ तद्यथा-सामान्यतोजीवपदंतिर्यक्पञ्चेन्द्रियपदंमनुष्यपदंवैमानिकपदंच, सर्वत्राप्येकवचनचिन्तायां स्यादाहारकः स्यादनाहारक इति भङ्गः, बहुवचनचिन्तायां भङ्गत्रिकं, तद्यथा-सर्वेऽपि तावद् भवेयुराहारकाः १ अथवा आहारकाश्च अनाहारकश्च २ अथवा आहारकाचानाहारकाश्च ३, तथा चाह-'पम्हलेसाए सुक्कलेसाए जीवाइओ तियभंगो'त्ति,
अलेश्या लेश्यातीतास्ते चायोगिकेवलिनः सिद्दाश्च, ततोऽत्र त्रीणि पदानि, तद्यथा सामान्यतोजीवपदं मनुष्याः सिद्धाश्च, सर्वत्राप्येकवचनेन बहुवचनेनचानाहारकाएव वक्तव्याः, एतदेवाह-'अलेस्सा जीवा मणुस्सा सिद्धा य एगत्तेणवि पुहुत्तेणवि नो आहारगा अनाहारगा' इति, गतं लेश्याद्वारम्।
-पदं-२८, उद्देशकः-२ दारं-५"ष्टि":मू. (५६३) सम्मद्दिट्ठीणं भंते ! जीवा किं आहा० अना०?, गो० ! सिय आहा० सिय अना०, बेइंदिया तेइंदिया चउरिदिया छब्भंगा, सिद्धा अनाहारगा, अवसेसाणं तियभंगो,
मिच्छादिट्ठीसुजीवेगिंदियवज्जो तियभंगो,
सम्मामिच्छादिट्ठी णं भंते ! किं आहा० अना०?, गो० ! आहारते नो अना०, एवं एगिदियविगलिंदियवजं जाव वेमाणिते, एवं पुहुत्तेणवि।
वृ. सम्प्रति सम्यग्दृष्टिद्वारम्-सम्यग्दृष्टिश्चेहौपशमिकसम्यकत्वेन सास्वादनसम्यकत्वेन क्षायोपशमिकसम्यकत्वेन वेदकसम्यकत्वेन क्षायिकसम्यकत्वेन वा प्रतिपत्तव्यः, सामान्यत उपादानात्, तथैवाग्रेभङ्गचिन्तायाअपिकरिष्यमाणत्वात्, तत्रौपशमिकसम्यग्दृष्टादयः सुप्रतीताः, वेदसम्यग्दृष्टिः पुनः क्षायिकसम्यकत्वमुत्पादयन् चरमग्रासमनुभवन्नवसेयः एकत्वे सर्वेष्वपि जीवादिपदेषु प्रत्येकमेष भङ्गः स्यादाहारकः स्यादनाहारक इति, नवरमत्र पृथिव्यादिविषयं सूत्रं न वक्तव्यं, तेषां सम्यग्धष्टित्वायोगात्, उभयाभावो पुढवाइएसु' इति वचनाद्, बहुवचन विषयं सूत्रं, सामान्यतो जीवपदे आहारका अपि अनाहारका अपि इत्येष एव भङ्गः, उभयेषामपि सदा सम्यग्दृष्टीनां बहुत्वेन लभ्यमानत्वात्, नैरयिकभवनपतितिर्यक्पञ्चेन्द्रियमनुष्यव्यन्तरज्योतिष्कवैमानिकेषुप्रत्येकं भङ्गत्रिकं, तद्यथा-कदाचित्सर्वेऽप्याहारका एव १ कदाचिदाहारका एकश्चानाहारकः २, कदाचिदाहारकाश्च अनाहारकाश्च ३,
द्वित्रिचतुरिन्द्रियेषु पुनः षड्भङ्गाः, तेच प्राग्वद्भावनीयाः, द्वीन्द्रियादीनांचसम्यग्दृष्टित्वमपर्याप्तावस्थासम्भविसास्वादनसम्यकत्वापेक्षया द्रष्टव्यं, सिद्धास्त्वनाहारकाः, एतेषां क्षायिकसम्यकत्वयुक्तत्वात्, तथाचाह- 'बेइंदियतेइंदियचउरिदिएसुछब्भंगा, सिद्धाअनाहारगा, अवसेसाणं तियभंगो' मिथ्याष्टिष्वपिएकवचने सर्वत्र स्यादाहारकः स्यादनाहारक इति वक्तव्यं, बहुवचने जीवपदे पृथिव्यादिपदेषु च प्रत्येकमाहारका अपि अनाहारका अपीति, उभयेऽमपि सर्वदैवे तेषु बहुत्वेन लभ्यमानत्वेन, शेषेषुतु सर्वेषु स्थानेषु भङ्गत्रिकं, सिद्धसूत्रं चात्र न वक्तव्यं, सिद्धानां मिथ्यात्वापगमात्, एतदेवाह- 'मिच्छादिट्ठीसुजीवेगिंदियवज्जो तियभंगो,
सम्मामिच्छदिट्ठीणं भंते! जीवे' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! आहारको नोअनाहारकः, कस्मादिति चेत्, उच्यते, इह संसारिणामनाहारकत्वं विग्रगतौ, न च सम्यग्मिथ्या
प्टित्वं विग्रहगताववाप्यते, कालकरणायोगात्, “सम्मामिच्छो न कुणइ कालं' इति वचनात्, ततःसम्यग्मिथ्यादृष्टेर्विग्रहगत्यभावतोऽनाहारकत्वाभावः, एवेचतुर्विंशतिदण्डकक्रमेण सर्वत्रापि
For Private & Personal Use Only
Jain Education International
___www.jainelibrary.org