________________
२२२
प्रज्ञापनाउपाङ्गसूत्रम्-२- २८/9/-/५५७ भावना-यथा शीतपुद्गलाः शीतयोनिकस्य प्राणिनः सुखित्वायोपकलप्यन्ते उष्णपुद्गला वा उष्णयोनिकस्य तथा देवैरपि मनसाऽभ्यवह्यिमाणाः पुद्गलास्तेषां तृप्तये परमसन्तोषाय चोपकल्पन्ते, ततआहारविषयाभिलाषनिवृत्तिर्भवतीति,अत्रचओजहारादिविभागप्रतिपादिका इमाः सूत्रकृताङ्गनियुक्तिगाथाः॥१॥ "सरीरेणोयाहारो तयाय फासेण लोमआहारो।
पक्खेवाहारो पुन कावलिओ होइ नायव्वो॥ ॥१॥ ओयाहारा जीवा सव्वे अपञ्जत्तया मुनेयव्वा।
पज्जत्तगायलोमे पक्खेवे होति भइयव्वा ॥ ॥२॥ एगिदियदेवाणंनेरइयाणंच नत्थि पक्खेवो ।
सेसाणं जीवाणं संसारत्याण पक्खेवो॥ ॥३॥ लोमाहारा एगिदिया उनेरइयसुरगणा चेव ।
- सेसां आहारो लोमे पक्खेवओ चेव ।। ॥४॥ ओयाहारा मनभक्खिणो य सव्वेवि सुरगणा होति।
सेसा हवंति जीवा लोमे पक्खेवो चेव ॥" अथ क आहार आभोगनिवर्तितः को वाऽनाभोगनिवर्तित इति चेत्, उच्यते, देवानामाभोगनिवर्तितःओजआहारःसचापर्याप्तावस्थायां, लोमाहारोऽप्यनाभोगनिवतिः, सच पर्याप्तवस्थायांआभोगनिवर्तितोमनोभक्षणलक्षणः,सचपर्याप्तावस्थायांदेवानामेवनशेषाणां, सर्वेषामप्यानाभोगनिवर्तित आहारोऽपर्याप्तावस्थायांलोमाहारः पर्याप्तावस्थायां, नैरयिकवानांलोमाहारो, नैरयिकाणांतुलोमाहारआभोगनिवर्तितोऽपि,द्वीन्द्रियादीनांमनुष्यपर्यवसानानां यःप्रक्षेपाहारः स आभोगनिवर्तित एवेति॥
पदं-२८, उद्देशकः-१ समाप्तः
-:पदं-२८-उद्देशकः-२:वृ. व्याख्यात आहारपदस्य प्रथमोद्देशकः, सम्प्रति द्वितीयो व्याख्येयः, तत्र चादावियमधिकारसङग्रहगाथामू. (५५८) आहार १ भविय २ सण्णी ३ लेसा ४ दिट्ठी ५ य संजत ६ कसाए ७।
नाण ८ जोगु ९ वओगे १० वेदे ११ यसरीर १२ पजत्ती १३॥ वृ. 'आहारे'त्यादि, प्रथमं सामान्यत आहाराधिकारः, द्वितीयो भव्याधिकारोभव्यविशेषिताहाराधिकारः, एवंतृतीयःसंश्यधिकारः, चतुर्थो लेश्याधिकारः पञ्चमोष्टयधिकारः षष्ठःसंयताधिकारः सप्तम; कषायाधिकारः अष्टमो ज्ञानाधिकारः नवमो योगाधिकारःदशम उपयोगाधिकारः एकादशो वेदाधिकारः द्वादशःशरीराधिकारः त्रयोदशः पर्याप्तयधिकारः, इह भव्यादिग्रहणेन तत्प्रतिपक्षभूता अभव्यादयोऽपि सूचिता द्रष्टव्याः, तथैवाग्रे वक्ष्यमाणत्वाद्,
तत्र प्रथमं सामान्यत आहाराधिकारं विभावयिषुरिदमाह
. पदं-२८, उद्देशकः-२-दारं-१ "आहार" मू. (५५९) जीवेणंभंते! किं आहारए अनाहारए?, गो०! सिय आहारए सिय अना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org