SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २२१ पदं-२८, उद्देशकः-१, द्वारंवैक्रियशरीरतया तथा स्वभावात्, द्वित्रिचतुरिन्द्रियास्तिर्यक्पञ्चेन्द्रियामनुष्याश्च लोमाहार अपि वक्तव्याः प्रक्षेपाहारा अपि, उभयरूपस्याप्याहारस्य तेषां सम्भवात्, चरममर्थादिकारमभिधित्सुराह मू. (५५७) नेरइयाणंभंते! किंओयाहारा मणभक्खी?, गो०! ओयाहारा नोमणभक्खी, एवं सब्बे ओरालियसरीरावि, देवा सब्वेविजाव वेमाणिया ओयाहारावि मणभक्खीवि, तत्थणं जे ते मणभक्खी देवा तेसिणंइच्छामणे समुष्पज्जति इच्छामोणंमणभक्खणं करित्तते, ततेणंतेहिं देवेहिं एवं मणसीकते समाणे खिप्पामेवजे पोग्गला इट्ठा कंताजावमणामाते तेसिंमणभक्खत्ताए परिणमंति, से जहा नामएसीयापोग्गला सीयंपप्प सीयं चेव अतिवतित्ताणं चिट्ठति, उसिणावा पोग्गला उसिणं पप्पउसिणंचेव अइवइत्ताणं चिट्ठति, एवामेव तेहिं देवेहिंमणभक्खीकएसमाणे से इच्छामणे खिप्पामेव अवेति। पृ. 'नेरइया णं भंते !' इत्यादि, ओज-उत्पत्तिदेशे आहारयोग्यपुद्गलसमूहः, ओज आहारोयेषांतेओजआहाराः,मनसाभक्षयन्तीत्येवंशीलामनोभक्षिणः, तत्रनैरयिकाओजआहारा भवन्ति, अपर्याप्तावस्थायामोजस एवाहारस्य सम्भवात्, मनोभक्षिणस्त्वेतेन भवन्ति, मनोभक्षणलक्षणो ह्याहारः स उच्यते येतथाविधशक्तिवशात् मनसा स्वशरीरपुष्टिजनकाः पुद्गला अभ्यवयिन्ते, यदभ्यवहरणानन्तरं तृप्तिपूर्वः परमसन्तोष उपजायते, न चैतन्त्रैरयिकाणामस्ति, प्रतिकूलक- मोदयवशतः तथारूपशक्तयभावात, “एवं सव्वे ओरालियसरीरावि' इति, एवं-नैरयिकोक्तेनप्रकारेणऔदारिकशरीररिणोऽपि सर्वे पृथिवीकायिकादयोमनुष्यपर्यवसाना वक्तव्याः, तद्यथा-'पुढविकायाणं भंते ! किं ओयाहारा मनभक्खी?, गोयमा! ओयाहारा नो मणभक्खी' त्यादि, 'देवा' इत्यादि देवाः यावद्वैमानिका ओजअहारा अपि मनोभक्षिणोऽपि वक्तव्याः, तद्यथा-असुरकुमाराणं भंते १ किं ओयाहारा मनोभक्खी?,गो०! ओयाहारावि मणभक्खीवि, जाव वेमाणियाणं पुच्छा गो०१ ओयाहारावि मणभक्खीवि' ॥ सम्प्रतिमनोभक्षित्वं देवानां यथा भवति तथोपदर्शयति-तत्थ णमित्यादि, तत्र-तेषु संसारिषु जीवेषु मध्ये, णमिति वाक्यालङ्कारे ये मनोभक्षिणो देवास्तेषां णमिति वाक्यालङ्कारे मनः प्रस्तावादाहारविषयं समुत्पद्यते, केनोल्लेखेन इत्यत आह-इच्छामः-अभिलषामो णमिति वाक्यालङ्कारे, मनोभक्षिणमिति-मनसा भक्षणं मनोरभणं कर्तुमिति, तत एवं तैर्मनसि कृतेव्यवस्तापिते मनोभक्षणेसति तथाविधशुभकर्मोदयवशात् क्षिप्रमेव तत्कालमेवेति भावः, ये इष्टाः कान्ताः प्रिया मनोज्ञा मनापा पुद्गलाः एतेषां व्याख्यानं प्राग्वत् तेषां देवानां मनोभक्षतया परिणमन्ते, कथमित्यत्रैव दृष्टान्तमाह ‘से जहानामए सेशब्दोऽथशब्दार्थः, स चात्र वाक्योपन्यासे, यथा नामेति विवक्षिता; शीताः पुद्गलाःशीतं-शीतयोनिकंप्राणिनं प्राप्यशीतत्वमेवातिव्रज्य-अतिशयेन गत्वा तिष्ठन्ति, किमुक्तं भवति ?- विशेषतः शीतीभुय शीतयोनिकस्य प्राणिनः सुखित्वायोपकल्पन्त इति, उष्णा वा पुद्गला उष्णं-उष्णयोनिकं प्राप्य उष्णमेव-उष्णत्वमेवातिव्रज्य-अतिशयेन गत्वा तिष्ठन्ति, विशेषतः स्वरूपलाभसम्पत्त्या तस्य सुखित्वायोपतिष्ठन्त इति भावः, ___ 'एवमेव' अनेनैव प्रकारेण तैर्देवैः प्रागुक्तरीत्या मनोभक्षणे कृते सति स तेषां देवानामिच्छामनः-आहारविषयेच्छाप्रधानमनः क्षिप्रमेवापैति-तृप्तिभावानिवर्तते इति भावः, इयमत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy