Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
पदं-२८, उद्देशकः-१, द्वारं
२१५
-
हारतयागृह्यमाणाः पृष्टाद्रष्टव्याः,अन्यथानिर्वचनसूत्रमपेक्ष्यपूर्वापरविरोधप्रसङ्गो, नचभगवद्वचने विरोधसम्भावनाऽप्यस्ति, ततइदमेव व्याख्यानंसम्यक्, अतएवंविधपूर्वापरविरोधाशकाव्युदासार्थ पूर्वसूरिभिः कालिकसूत्रस्यानुयोगः कृतः,उक्तंच॥१॥ “जंजह सुत्ते भणियं तहेव तंजइ वियालणा नत्यि।
किंकालियाणुजोगो दिह्रो दिटिप्पहाणेहिं? ॥" तान् किं सर्वान् आहारयन्ति उतनोसर्वान् सर्वैकदेशभूतान्?, भगवानाह-तान्सर्वान्अपरिशेषानाहारयन्ति, उज्झितशेषाणामेव केवलानामाहारपरिणामयोग्यानांगृहीतत्वात्, ‘नेरइया णमित्यादि, नैरयिकाः णमितिपूर्ववत् यान् पुद्गलान् आहारतया गृहन्ति ते पुद्गलाः णमिति पूर्ववत् तेतेषांनेरयिकाणांकीकत्या-किंस्वरूपतयाभूयो भूयः परिणमन्ते?, भगवानाह-गौतम श्रोत्रेन्द्रियतया यावत्करणात् चक्षुरिन्द्रियतया घ्राणेन्द्रियतया जिह्वेन्द्रियतयेति परिग्रहः, स्पर्शनेन्द्रियतया, इन्द्रियरूपतयापिपरिणममानानशुभरूपाः किन्त्वेकान्ताशुभरूपाः, यतआह
'अनिठ्ठत्ताते'इत्यादि, इष्टा-मनसा इच्छाविषयीकृताः, यथाशोभनमिदंजातंयदित्यमिम् परिणता इति,तद्विपरीता अनिष्टास्तभावस्तत्तातया, इहकिञ्चित्परमार्थतःशुभमपिकेषाश्चिदनिष्टं भवति यथा मक्षिकाणां चन्दनकर्पूरादि तत आह-'अकंतत्ताए न कान्ताः-कमनीया अकान्ता अत्यन्ताशुभवर्णोपेतत्वात्, अतएवाप्रियतयानप्रिया अप्रियाः, दर्शनापातकालेऽपिन प्रियबुद्धिमात्मन्युत्पादयन्तीति भावः, तद्भावोऽप्रियता तया, 'असुभत्ताए' इतिन शुभा अशुभाअशुवर्णगन्धरसस्पर्शत्मकत्वात्तद्भावस्तत्तातया, 'अमणुनत्ताए' इतिनमनोज्ञाअमनोज्ञाः, विपाककाले दुःखजनकतया न मनःप्रह्लादहेतव इति भावः, तद्भावस्तत्तातया, 'अमणामत्ताए' भोज्यतया मनः आप्नुवन्तीतिमनआपाः, प्राकृतत्वाच्चपकारस्यमकारत्वेमणामइतिसूत्रे निर्देशः,नमनआपा अमनआपा, न जातुचिदपि भोज्यतया जन्तूना मनआपीभवन्तीति भावस्तद्भावस्तत्ता तया, अत एव ‘अनिच्छियत्ताए' इति अनीप्सिततया भोज्यतया स्वादितुमीष्टा ईप्सिता न ईप्सिता अनीप्सिता-स्तद्भावस्तत्ता तया, 'अभिज्झियत्ताए' अभिध्यानमभिध्या, अभिलाष इत्यर्थः,
अभिध्यासआताएष्वितिअभिध्यितास्तारकादिदर्शनादितप्रत्ययःतदभावस्तत्तातया, किमुक्तं भवति?-ये गृहीता आहारतया पुद्गलानतेतृप्तिहेतवोऽभूवन्नितिन पुनरभिलषणीयत्वेन परिणमन्ते, तथा 'अहत्ताए' इति अधस्तया, गुरुपरिणामतयेति भावः, नो ऊर्ध्वतयालघुपरिणामतया, अतएवदुःखतया गुरुपरिणामपरिणतत्वात्, नसुखतया लघुपरिणामपरिणतवाभावात्,तेपुद्गलास्तेषां नैरयिकाणां भूयो भूयः परिणमन्ते! एतान्येव आहारार्थिन इत्यादीनि सप्त द्वाराणि असुरकुमारादिषु भवनपतिषु चिचिन्तयिषुरिदमाह
'जहानेरइयाण'मित्यादि, यथा नैरयिकाणांतथा असुरकुमाराणामपि भाणितव्यं,यावत् 'तेसिं भुजो २ परिणमन्तीति पर्यन्तपदं, तत्र नैरयिकसूत्रादस्य सूत्रस्य विशेषमुपदर्शयति-तत्य णंजे से' इत्यादि, एवं चोपदर्शितं सूत्रंनमन्दमतीनांयथास्थितंप्रतीतिमागच्छतिततस्तदनुग्रहाय सूत्रमुपदश्यते।
मू. (५५३) असुरकुमारा णं भंते ! आहारट्ठी!, हंता ! आहारट्ठी, एवं जहा नेरइयाणं तहा असुरकुमारणवि भाणितव्वं, जाव तेसिं भुजो २ परिणमंति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342