SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ पदं-२८, उद्देशकः-१, द्वारं २१५ - हारतयागृह्यमाणाः पृष्टाद्रष्टव्याः,अन्यथानिर्वचनसूत्रमपेक्ष्यपूर्वापरविरोधप्रसङ्गो, नचभगवद्वचने विरोधसम्भावनाऽप्यस्ति, ततइदमेव व्याख्यानंसम्यक्, अतएवंविधपूर्वापरविरोधाशकाव्युदासार्थ पूर्वसूरिभिः कालिकसूत्रस्यानुयोगः कृतः,उक्तंच॥१॥ “जंजह सुत्ते भणियं तहेव तंजइ वियालणा नत्यि। किंकालियाणुजोगो दिह्रो दिटिप्पहाणेहिं? ॥" तान् किं सर्वान् आहारयन्ति उतनोसर्वान् सर्वैकदेशभूतान्?, भगवानाह-तान्सर्वान्अपरिशेषानाहारयन्ति, उज्झितशेषाणामेव केवलानामाहारपरिणामयोग्यानांगृहीतत्वात्, ‘नेरइया णमित्यादि, नैरयिकाः णमितिपूर्ववत् यान् पुद्गलान् आहारतया गृहन्ति ते पुद्गलाः णमिति पूर्ववत् तेतेषांनेरयिकाणांकीकत्या-किंस्वरूपतयाभूयो भूयः परिणमन्ते?, भगवानाह-गौतम श्रोत्रेन्द्रियतया यावत्करणात् चक्षुरिन्द्रियतया घ्राणेन्द्रियतया जिह्वेन्द्रियतयेति परिग्रहः, स्पर्शनेन्द्रियतया, इन्द्रियरूपतयापिपरिणममानानशुभरूपाः किन्त्वेकान्ताशुभरूपाः, यतआह 'अनिठ्ठत्ताते'इत्यादि, इष्टा-मनसा इच्छाविषयीकृताः, यथाशोभनमिदंजातंयदित्यमिम् परिणता इति,तद्विपरीता अनिष्टास्तभावस्तत्तातया, इहकिञ्चित्परमार्थतःशुभमपिकेषाश्चिदनिष्टं भवति यथा मक्षिकाणां चन्दनकर्पूरादि तत आह-'अकंतत्ताए न कान्ताः-कमनीया अकान्ता अत्यन्ताशुभवर्णोपेतत्वात्, अतएवाप्रियतयानप्रिया अप्रियाः, दर्शनापातकालेऽपिन प्रियबुद्धिमात्मन्युत्पादयन्तीति भावः, तद्भावोऽप्रियता तया, 'असुभत्ताए' इतिन शुभा अशुभाअशुवर्णगन्धरसस्पर्शत्मकत्वात्तद्भावस्तत्तातया, 'अमणुनत्ताए' इतिनमनोज्ञाअमनोज्ञाः, विपाककाले दुःखजनकतया न मनःप्रह्लादहेतव इति भावः, तद्भावस्तत्तातया, 'अमणामत्ताए' भोज्यतया मनः आप्नुवन्तीतिमनआपाः, प्राकृतत्वाच्चपकारस्यमकारत्वेमणामइतिसूत्रे निर्देशः,नमनआपा अमनआपा, न जातुचिदपि भोज्यतया जन्तूना मनआपीभवन्तीति भावस्तद्भावस्तत्ता तया, अत एव ‘अनिच्छियत्ताए' इति अनीप्सिततया भोज्यतया स्वादितुमीष्टा ईप्सिता न ईप्सिता अनीप्सिता-स्तद्भावस्तत्ता तया, 'अभिज्झियत्ताए' अभिध्यानमभिध्या, अभिलाष इत्यर्थः, अभिध्यासआताएष्वितिअभिध्यितास्तारकादिदर्शनादितप्रत्ययःतदभावस्तत्तातया, किमुक्तं भवति?-ये गृहीता आहारतया पुद्गलानतेतृप्तिहेतवोऽभूवन्नितिन पुनरभिलषणीयत्वेन परिणमन्ते, तथा 'अहत्ताए' इति अधस्तया, गुरुपरिणामतयेति भावः, नो ऊर्ध्वतयालघुपरिणामतया, अतएवदुःखतया गुरुपरिणामपरिणतत्वात्, नसुखतया लघुपरिणामपरिणतवाभावात्,तेपुद्गलास्तेषां नैरयिकाणां भूयो भूयः परिणमन्ते! एतान्येव आहारार्थिन इत्यादीनि सप्त द्वाराणि असुरकुमारादिषु भवनपतिषु चिचिन्तयिषुरिदमाह 'जहानेरइयाण'मित्यादि, यथा नैरयिकाणांतथा असुरकुमाराणामपि भाणितव्यं,यावत् 'तेसिं भुजो २ परिणमन्तीति पर्यन्तपदं, तत्र नैरयिकसूत्रादस्य सूत्रस्य विशेषमुपदर्शयति-तत्य णंजे से' इत्यादि, एवं चोपदर्शितं सूत्रंनमन्दमतीनांयथास्थितंप्रतीतिमागच्छतिततस्तदनुग्रहाय सूत्रमुपदश्यते। मू. (५५३) असुरकुमारा णं भंते ! आहारट्ठी!, हंता ! आहारट्ठी, एवं जहा नेरइयाणं तहा असुरकुमारणवि भाणितव्वं, जाव तेसिं भुजो २ परिणमंति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy