SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाउपाङ्गसूत्रम् - २ - २८/१//५५२ मध्ये-मध्येषु समयेषु आहोश्चित्पर्यवसाने - पर्यवसानसमये ?, भगवानाह - गौतम! आदावपि मध्येऽपि पर्यवसानेऽप्याहारयन्ति, किमुक्तं भवति ? -उपभोगोचितस्य कालस्यान्तर्मुहूर्त्तप्रमाणस्यादिमध्यावसानेषु समयेष्वाहारयन्तीति, यानि भदन्त ! आदावपि मध्येऽपि पर्यवसानेऽप्याहारयन्ति तानि भदन्त ! किं स्वविषयाणिखोचिताहारयोग्यानि आहारयन्ति उत अविषयाणिखोचिताहारायोग्यान्याहारयन्ति ?, भगवानाह - गौतम ! स्वविषयाण्याहारयन्ति नो अविषयाण्या २१४ हारयन्ति, यानि भदन्त ! स्वविषयण्याहारयन्ति तानि भदन्त ! किमानुपूर्व्याआहारयन्ति अनानुपूर्व्या आनुपूर्वीनाम यथासनं यद्विपरता अनानुपूर्वी, भगवानाह - गौतम ! आनुपूर्व्या, सूत्रे द्वीतीय तृतीयार्थे वेदितव्या प्राकृतत्वात्, यथा आचाराङ्गे 'अगणिं च पुट्ठा' इत्यत्र, आहारयन्ति नो अनानुपूर्व्या, ऊर्ध्वमधस्तिर्यग्वा यथासन्नं नातिक्रम्याहारयन्तीति भावः, यानि भदन्त ! आनुपूर्व्या आहारयन्ति तानि किं 'तिदिसिं' ति तिम्रोदिशः समाहतास्त्रिदिक् तस्मिन् व्यवस्थितान्याहारयन्ति चतुर्दिशि पञ्चदिशि षदिशि वा, इह लोकनिष्कुटपर्यन्ते जघन्यपदे त्रिदिग्व्यवस्थितमेव प्राप्यते न द्विदिग्व्यवस्थितमेकदिग्व्यवस्थितं वा अतस्त्रिदिश आरभ्य प्रश्नः कृतः, भगवानाह - गौतम ! नियमात् षड्दिशि व्यवस्थितान्याहारयन्ति, नैरयिका हि त्रसनाड्या मध्ये व्यवस्थिताः, तत्र चावश्यं षड्दिक्संभव इति, ‘ओसन्नकारणं पडुचे’इत्यादि, ओसन्नशब्दो बाहुल्यावाची, यथा 'ओसन्नं देवा सायावेयणं वेदयन्ती' त्यत्र, ओसन्नकारणं - बाहुल्यकारणं प्रतीत्य, किं तद्वाहुल्यकारणमिति चेत्, उच्यते, अशुभानुभाव एव, तथापि प्रायो मिथ्याध्ष्टयः कृष्णागदीन्याहारयन्ति न तु भविष्यत्तीर्तकरादयः तत ओसन्नेत्युक्तं, वर्णतः कालनीलानि गन्धतो दुरभिगन्धानि रसतस्तिक्तकटुकानि स्पर्शतः कर्कशगुरुशीतरूक्षाणि इत्यादि, तेषामाहार्यमाणानां पुद्गलानां 'पुराणान्' अग्रेतनान् वर्णगुणान् गन्धगुणान् रसगुणान् स्पर्शगुणान् 'विपरिणामइत्ता परिवीलइत्ता परिसाडइत्ता परिविद्धसंइत्ता' एतानि चत्वार्यपि पदानि एकार्थिकानि विनाशार्थप्रतिपादकानि नानादेशजविनेयानुग्रहार्थमुपात्तानि, विनाश्य किमित्याह-अन्यान् अपूर्वान् वर्णगुणान् गन्धगुणान् रसगुणान् स्पर्शगणान् उत्पाद्य आत्मसरीरक्षत्रावगाढान् पुद्गलान् 'सव्वप्पणया' सर्वात्मना सर्वैरेवात्मप्रदेशैराहारमाहाररूपान् आहारयन्ति, 'नेरइया णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, 'नेरइया णं भंते! जे पोग्गला' इत्यादि, नैरयिका णमितिपूर्ववत्, भदन्त ! यान् पुद्गलान् आहारतया गृह्णन्ति नैरयिकाः तेषां गृहीतानां पुद्गलानां 'सेकालंसि' एष्यत्काले ग्रहणकालोत्तरकालमित्यर्थः 'कइभागं 'ति कतिथं भागमाहारयन्ति- आहारतयोपभुञ्जते ?, तथा 'कतिभागं' कतिथं भागमाहार्यमाणपुद्गलानामास्वादं गृह्णन्ति, नहि सर्वे पुद्गला आहार्यमाणा आस्वादमायान्तीति पृथक् प्रश्नः, भगवानाह - गौतम असङ्घयेयं भागमाहारयन्ति, अन्ये तु गवादिप्रथमबृहद्ग्रासग्रहण इव परिशटन्ति, आहार्यमाणानां पुद्गलानामनन्तभागमास्वादयन्ति, शेषास्त्वनासादिता एव शरीरपरिणाममापद्यन्ते इति. ‘नेरइया णं भंते!’इत्यादि, नैरयिकाः णमिति पूर्ववत् यान् पुद्गलान् आहारतया गृह्णन्ति, इह ग्रहणं विशिष्टमवसेयं, ततो ये उज्झितशेषाः केवला आहारपरिणामयोग्य एवावतिष्ठन्ते तेऽत्रा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy