________________
पदं- २८, उद्देशकः - १, द्वारं -
२१३
यानि भदन्त ! अन्तगुणरूक्षाणि उपलक्षणमेतत् एकगुणकालादीन्यपि आहारयन्तीति, तानि च भदन्त ! किं स्पृष्टानि-आत्मप्रदेशविषयाण्याहारयन्ति उतास्पृष्टानि ?, भगवानाह - स्पृष्टानि नो अस्पृथनि 'जहा भासुद्देस वा जाव नियमा छद्दिसिं' ति अत ऊर्ध्वं यथा भाषोद्देशके प्राक् सूत्रमभिहितं तथात्रापि द्रष्टव्यं तत्र तावत् यावत् 'नियमा छद्दिसिं' ति पदं, तच्चैवम्,
'जाई पुट्ठाई' आहा ! ताई भंते! किं ओगाढाई आहा० अनेगाढाई आहारेति ?, गो० ओगाढाई आहारेति नो अणोगाढाई आहारेति, जाई भंते! ओगाढाई आहारेति ताइं किं अनंतरोगाढाई आ० परंपरोगाढाई आहारेंति ?, गो० ! अनंतरोगाढाई आ० नो परंपरोगाढाई आ०, जाई भंते अनंतरोगाढाई आ० ताई भंते! किं अणूई आहारेति बादराई आ० ?, गो० ! अणूइंपि आ० बादराईपि आहा०, जाई भंते! अणूइंपि आहारेति बादराईपि आ० ताई किं उड्डुं आ० अहे आहा० तिरियं आहारेंति ?, गो० ! उहुंपि आ० अहेवि आ० तिरियंपि आहारेति,
जाई भंते! उडुंपि आ० अहेवि आहा० तिरियंपि आहारेंति ताइं किं आदिं आ० मज्झे आ० पजवसाणे आ० ?, गो० ! आदिंपि आहारेंति मज्झेवि आ० पज्जवसाणेवि आहारेंति जाई भंते! आइपि आहारेति मज्झेवि आहारेति पजवसाणेवि आहारेति ताइं भंते ! किं सविसए आहारेति अविसए आ० ?, गो० ! सविसए आ० नो अविसए आ० जाई भंते ! सविसए आ० ताइं किं आनुपुव्वीए आहारेंति अनानुपुव्वीए आ० ?, गो० ! आणुपुब्वीए आ० नो अनानुपुव्वीए आ० जाई भंते! आनुपुव्विं आ० ताई किं तिदिसिं आहारेंति चउदिसिं आहा० पंचदिसिं आहारेति छद्दिसिं आहारेंति ?, गो० ! नियमा छद्दिसिं आ०, 'अस्य व्याख्या - इहात्मप्रदेशैः संस्पर्शनमात्मपरदेशावगाढक्षेत्राद्वहिरपि सम्भवति ततः प्रश्नयति
'जाई भंते' इत्यादि, यानि भदन्त ! स्पृष्टथन्याहारयन्ति तानि किं अवगाढानि - आत्मप्रदेशैः सह एक क्षेत्रावस्थायीनि उत अनवगाढानि - आत्मप्रदेशावगाह क्षेत्राद्वहिरवस्थितानि ?, भगवानाह - गौतम ! अवगाढान्याहारयन्ति नानावगाढानि यानि भदन्तावगाढान्याहारयन्ति तानि भदन्त ! किमनन्तरावगाढानि, किमुक्तं भवति ? - येष्वात्मप्रदेशेषु यान्यव्यवधानेनावगाढानि तैरात्मप्रदेशैस्तान्येवाहारयन्ति उत परम्परावगाढानि - एकद्वित्रयाद्यात्मप्रदेशव्यवहितानि ?, भगवानाह - गौतम ! अनन्तरावगाढानि आहारयन्ति नो परम्परावगाढानि, यानि भदन्तानन्तरावगाढान्याहारयन्ति तानि किमणूनि - स्तोकान्याहारयन्ति उत बादराणि - प्रभूतप्रदेशोपचितानि भगवानाह - गौतम ! अणून्यप्याहारयन्ति बादराण्यप्याहारयन्ति, इहाणुत्ववादरत्वे तेषामेवाहारयोग्यानां स्कन्धानां प्रदेशस्तोकत्वबाहुल्यापेक्षया वेदितव्ये इति,
यानि भदन्त ! अणुन्यप्याहारयन्ति तानि भदन्त ! किमूर्ध्व ऊर्ध्वप्रदेशस्थितान्याहारयन्ति अधस्तिर्यग्वा, इह ऊध्वाधस्तिर्यकत्वं यावति क्षेत्रे नैरयिकोऽवगाढः तावत्येव क्षेत्रे तदपेक्षया परिभावनीयं, भगवानाह - गौतम ! ऊर्ध्वमप्याहारयन्ति - ऊर्ध्वप्रदेशावगाढन्यप्याहारयन्ति एवमधोऽपि तिर्यगपि, यानि भदन्त ! उर्ध्वमप्याहारयन्ति अधोऽप्याहारयन्ति तिर्यग्ग्याहारयन्ति तानि किमादावाहारयन्ति मध्ये आहारयन्ति पर्यवसाने आहारयन्ति, अयमन्त्राभिप्रायःनैरयिका हि अनन्तप्रदेशिकानि द्रव्याण्यन्तर्मुहूर्त्त कालं यावत् उपभोगोचितानि गृह्णन्ति, ततः संशयः किमुपभोगोचितस्य कालस्यान्तर्मुहूर्तप्रमाणस्यादी - प्रथमसमये आहारयन्ति उत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org