________________
२१२
प्रज्ञापनाउपाङ्गसूत्रम्-२-२८/9/-/५५२
आहारयामीतीच्छापूर्वं निर्मापित इतियावत्, तद्विपरीतोऽनाभोगनिवर्तितः, आहारयामीति विशिष्टेच्छामन्तरेण यो निष्पाद्यते प्रावृट्काले प्रचुरतरमूत्राघभिव्यङ्गयशीतपुद्गलाद्याङहारवत् सोऽनाभोगनिवर्तित इति भावः, _ 'तत्थण मित्यादि, तत्र-अनाभोगाभोगनिवर्तितयोर्मध्येयोऽसावनाभोगनिवर्तितआहारः 'सेण मिति पूर्ववत् अनुसमय प्रतिसमयसमये २ इत्यर्थः, इहच दीर्घकालोपभोग्यस्याहारस्यैकवारमपि ग्रहणेतावन्तंकालमनुसमयं भवति, ततआभवपर्यन्तंसातत्यग्रहणप्रतिपादनार्थमाहअविरहितआहारार्थः, समुत्पद्यते, अथवा सततप्रवृत्तेआहारार्थेऽपान्तराले चुक्कस्खलितन्यायेन येन कथञ्चित् विरहभावेऽपिलोकेतदगणनयाअनुसमयमिति व्यवहारः प्रवर्तते ततोऽपान्तराले विरहाभावप्रतिपादनार्थमविरहित इत्युक्तं, अनुसमयमविरहितोऽनाभोगनिर्वर्तित आहारार्थः समुत्पद्यमानःओजआहारादिना प्रकारेणावसेयः,
"तत्थ ण'मित्यादि, तत्र-आभोगानाभोगनिवर्तितयोर्मध्ये योऽसावाभोगनिवर्तितः आहारार्थः सोऽसङ्ख्येयसामयिकः-असंख्येयैः समयैर्निविर्तितः, सच्चासङ्खयेयसमनिवर्तितं तज्जधन्यपदेऽप्यन्तर्मुहूर्तिकं भवति न हीनमत आन्तर्मुहूर्तिक आहारार्थः समुत्पद्यते, किमुक्तं भवति?,-अन्तर्मुहूर्तकालंयावत्प्रवर्ततेनपरतो, नैरयिकाणांहियोऽसावाहारयामीत्यभिलाषः स परिगृहीताहारद्रव्यपरिणामेन यज्जनितमतितीव्रतरं दुःखं तद्मावादन्तर्मुहूर्तानिवर्त्तते तत आन्तर्मुहूर्तिको नैरयिकाणामाहारार्थः,
'नेरइयाण'मित्यादि, नैरयिकाणमिति पूर्ववत् किंस्वरूपमाहारमाहारयन्ति?, भगवान् द्रव्यादिभेदतस्तमाहारयन्तीतिनिरूपयितुकाम आह-गोयमे त्यादि, गौतम! द्रव्यतो-द्रव्यस्वरूपपर्यालोचनायांअनन्तप्रादेशिकानिद्रव्याणि, अन्यथा ग्रहणासम्भवात्, नहि सङ्घयातप्रदेशात्मका असङ्ख्यातप्रदेशात्मकावा स्कनधाजीवस्य ग्रहणयोग्या भवन्ति, क्षेत्रतोऽसङ्ख्येयप्ररदेशागाढानि कालतोऽन्यतरस्थितिकानि, जघन्यस्थितिकानि मध्यमस्थितिकानि उत्कृष्टस्थितिकानि चति भावार्थः, स्थितिरितिचाहारयोग्यस्कन्धपरिणामत्वेनावस्थानमवसेयं, भावतोवर्णवन्तिगंधवन्ति रसवन्ति स्पर्शवन्ति च, प्रतिपरमाण्वेकैकवर्णगन्धरसस्पर्शभावात्, _ 'जाई भावतो वण्णमंताई' इत्यादि प्रश्नसूत्रं सुगम, भगवानाहा-'गो० ! ठाणमग्गणं पडुच्चे त्यादि, तिष्ठन्ति विशेषा अस्मिन्निति स्थानं-सामान्यमेकवर्णं द्विवर्णं त्रिवर्णमित्यादिरूपं तस्यमार्गणं-अन्वेषणंतप्रतीत्यसामान्यचिन्तामाश्रित्येतिभावार्थः,एकवर्णान्यपिद्विवर्णादीन्यपि इत्यादि सूगमं, नवरं तेषामनन्तप्रादेशिकनां स्कन्धानामेकवर्णत्वं द्विवर्णत्वमित्यादि व्यवहारनयमतापेक्षया, निश्चयनयमतापेक्षयात्वनन्तप्रादेशिकस्कन्धोऽणीयानपिपञ्चवर्णएवप्रतिपत्तव्यः, 'विहाणमग्गणं पडुच्चे' त्यादि, विविक्तम्-इतरव्यवच्छिन्नं धानं-पोषणं स्वरूपस्य यत् तद्विधानं-विशेषःकृष्णो नील इत्यादिप्रतिनियतो वर्णादिविशेष इतियावत् तस्य मार्गणंप्रतीत्य तानि कालवर्णान्यपि आहारयन्तीत्यादि सुगमं, नवरमेतदपि व्यवहारतः प्रतिपत्तव्यं, निश्चयतः पुनरवश्यं तानि पञ्चवर्णान्येव, ____ 'जाईवण्णओ कालवण्णाइंपी'त्यादि सुगमं, यावद् ‘अनन्तगुणसुकिल्लाइंपि आहारेंति' एवं गंधरसस्पर्शविषयाण्यपि सूत्राणि भावनीयानि, 'जाइं भंते ! अनंतगुणलुक्खाई' इत्यादि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org