SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १९२ प्रज्ञापनाउपाङ्गसूत्रम्-२-२३/२/-/५४१ पूर्वकोटित्रिभागरूपाया अबाधायाश्चालभ्यमानत्वात्, __"तिरियगइनामाएजहानपुंसगवेयस्स' इति, जघन्यतोद्वौ सागरोपमस्य सप्तभागौपल्योपमासङ्घयेयभागहीनौ, उत्कर्षतोविंशतिःसागरोपमकोटीकोट्यइत्यर्थः, मनुष्यगतिनाम्मि 'जहन्नेणं सागरोवमस्स दिवड्डसत्तभागंपलिओवमस्सअसंखेज्जइभागेणऊणगं'तिअत्र भावना स्त्रीवेदवद् भावनीया, 'दिवद्धसत्तभाग'मित्यादौ तु नपुंसकनिर्देशः प्राकृतत्वात्, नरकगतिनाम्नो जघन्यतः सागरोपमसहस्रस्य द्वौ सप्तभागौ, किमुक्तं भवति ? -सागरोपमस्य द्वौ सप्तभागी सहस्रेण गुणिताविति, तदुत्कृष्टस्थितेर्विशतिसागरोपमकोटाकोटीप्रमाणत्वात्, तबन्धस्य च सर्वजघन्यस्यासंज्ञिपञ्चेन्द्रियस्य भावात्, असंज्ञिपञ्चेन्द्रियकर्मबन्धस्य च जघन्येनैकेन्द्रियजघन्यकर्मबन्धापेक्षया सहस्रगुणत्वात्, भावयिष्यतेचायमर्थोवैक्रियचिन्तायां, देवगतिनाम्नोजघन्यतःसागरोपमसहस्रस्यैकः सप्तभागः, एकः सागरोपमस्य सप्तभागः सहस्रगुणित इति भावः तस्य हि उत्कृष्टा स्थितिदर्श सागरोपमकोटीकोट्यः, ततः प्रागुक्तकरणवशादेकः सागरोपमस्य सप्तभागो लब्धः, बन्धोऽपि चास्य जघन्यतोऽसंज्ञिपञ्चेनद्रियस्येति सहस्रगुणितः, देवगतिनामसूत्रे 'उक्कोसेणं जहा पुरिसवेयस्स' इति 'दस सागरोवमकोडीओ दसवाससयाई अबाहा, अबाहूणिया कम्मठिई कम्मनिसेगो' इति वक्तव्यमिति भावः, द्वीन्द्रियजातिनामसूत्रे 'जहन्नेणं नव पणतीसइभागा पलिओवमस्स असंखेज्जइभागेण ऊणगा' इति, द्वीन्द्रियजातिनाम्नो ह्युत्कृष्ट स्थितिरष्टादश सागरोपमकोटीकोट्यः, 'अट्ठारस सुहुमविगलतिगे'त्ति वचनात्, ततोऽष्टादशानां सागरोपमकोटीकोटीनां मिथ्यात्वस्योत्कृष्टया स्थित्या सप्ततिसागरोपमकोटाकोटीप्रमाणया भागो हिते, भागश्चनपूर्यते, ततःशून्यं शून्येन पात्यते, जाता उपरि अष्टादश अघस्तात् सप्ततिस्तयोर्द्धनापवर्तनाल्लब्या नव पञ्चत्रिंशद्भागास्ते पल्योपमासङ्ख्येयभागोनाः क्रियन्ते, आगतं सूत्रोक्तं परिमाणमिति, एवं त्रिचतुरिन्द्रियजातिनामसूत्रे अपि भावनीये, वैक्रियशरीरनामसूत्रे जहन्नेणंसागरोवमस्स दोसत्तभागापलिओवमस्सअसंखेजइभागेणं ऊणगा' इति, इह वैक्रियशरीरनाम्न उत्कृष्टाविंशतिःसागरोपमकोटीकोट्यः स्थितिस्ततः प्रागुक्तकरणवशेन जघन्यस्थितिचिन्तायां तस्यां द्वौ सागरोपमस्य सप्तभागौ लभ्येते, परं वैक्रियषट्कमेकेन्द्रिया विकलेन्द्रियाश्चनबध्नन्ति, किन्त्वसंज्ञिपञ्चेन्द्रियादयः,असंज्ञिपञ्चेन्द्रियाश्चजघन्यतोऽपि बन्धं कुर्वाणा एकेन्द्रिबन्धापेक्षया सहस्रगुणं कुर्वन्ति, पणवीसा पन्नासासयंसहस्संचगुणकारो' इति वचनात्, ततो यौ द्वौ सागरोपमस्य सप्तभागौ प्रागुक्तकरणवशाल्लब्धौ तौ सहस्रेण गुण्येते ततःसूत्रोक्तं परिमाणं भवति, सागरोपमस्य द्वौ सहस्रौ सप्तभागानां सागरोपमसहस्रस्य द्वौ सप्तभागावितिह्येकोऽर्थः,आहारशरीरनाम्नोःजघन्यतोऽप्यन्तःसागरोपमकोटीकोटीउत्कर्षतोऽप्यन्तःसागरोपमकोटीकोटी, नवरंजघन्यादुष्कृष्टं सङ्ख्येयगुणांद्रष्टव्यं, अन्ये त्वाहारकचतुष्कस्य जघन्यतोऽप्यन्तर्मुहूर्तमिच्छन्ति, (तथा च) तद्ग्रन्थः ॥१॥ “परुंवेयअट्ठवासा, अट्ठमुहुत्ता जसुच्चगोयाणं । साए बारस आहारविग्घावरणाण किंचूणं ॥" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy