SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ पदं- २३, उद्देशकः-२, द्वारं - १९३ अत्र 'किंचूण' मिति अन्तर्मुहूर्तमित्यर्थः, तदत्र तत्वं केवलिनो विदन्ति, यथा शरीरपञ्चकस्य जघन्यत उत्कर्षतश्च स्थितिपरिमाणमुक्तं तेनैव क्रमेण शरीरबन्धपञ्चकस्य शरीरसंघातपञ्चकस्य च वक्तव्यं, तथा चाह - 'सरीरबन्धननामाएवि पंचण्हवि एवं चेव, सरीरसंघायणनामाए पंचण्हवि' इति 'वइरोसभनारायसंघयणनामाए जहा रइनामाए' इति, वज्रर्षभनाराचसंहनननाम्नो यथा प्राक् रतिनाम्नो मोहनीयस्योक्तं तथा वक्तव्यं, तद्यथा-'वइरोसभनारायसंघयणनामाए भंते! कम्मस्स केवइयं कालं ठिती पं० ?, गो० ! जह० एक्कं सत्तभागं पलिओवमस्स असंखेज्जइभागेण ऊणं, उक्० दस सागरोवमकोडाकोडीओ' इति, ऋषभनाराचसूत्रे 'सागरोवमस्स छप्पन्नतीसभागा पलिओवमस्स असंखिज्जइभागेण ऊणगा' इति, ऋषभनाराचसंहननस्य ह्युत्कृष्टा स्थितिर्द्वादश सागरोपमकोटीकोट्यः, तासां मिध्यात्वस्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया भागो हिते, तत्र भागहारासम्भवात्, शून्यं शून्येन पातयित्वा छेद्यच्छेदकराश्योरद्दधेनापवर्त्तनाल्लब्धाः सागरोपमस्य षट् पञ्चत्रिंशद्भागाः, ते पल्योपमासयेयभागहीना; क्रियन्ते, एवं नाराचसंहननाम्नो जघन्यस्थितिचिन्तायां सप्त पञ्चत्रिंशद्भागाः पल्योपमासङ्घत्येयभागहीनाः, उत्कृष्टस्थितेश्चतुर्द्दशसागरोपमकोटीकोटीप्रमाणत्वात्, अर्द्धनाराचसंहननाम्नः अष्टौ पञ्चत्रिंशद्भागाः पल्योपमासङ्घयेयभागोनाः, उत्कृष्टस्थितेः षोडशसागरोपमकोटीकोटीप्रमाणत्वात्, कीलिकासंहननाम्नो नव पञ्चत्रिंशद्भागाः पल्यो मासङ्घयेयभागहीनाः, उत्कृष्टस्थितेरष्टादशसागरोपमकोटीकोटीप्रमाणत्वात्, परिभावनीयाः, सेवार्त्तसंहननसूत्रं तु सुगमं, यथा संहननषट्कस्य स्थितिपरिमाणमुक्तं तेनैव क्रमेण संस्थानषट्कस्यापि वक्तव्यं, तथा चाह - 'एवं जहा संघयणनामा छब्मणिया एवं संठाणा छब्माणियव्वा' उक्तश्चायमर्थोऽन्यत्रापि 'संघयणे संठाणे पढमे दस उवरिसेसु दुगवुड्डी' इति हारिद्रवर्णनामसूत्रे 'जहन्त्रेणं सागरोवमस्स पंच अट्ठावीसइभागा पलि ओवमस्स असंखेजइभागेण ऊणगा' इति, हारिद्रवर्णनाम्नो हि सार्द्धाद्वादशसागरोपमकोटीकोटयः, तथा चोक्तमन्यत्रापि - ॥१॥ “सुक्किल्लसुरभिमहुराण दस उ तहा सुभगउण्हफासाणं । अड्डाइजपवुडी अंबिलहालिद्दपुव्वाणं ॥" तासां मिथ्यात्वस्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया भागो ह्रियते, तत्र शून्येन शून्यस्य पातनात्तेन उपरितनो राशिः सांश इति सामस्त्येन चतुर्भागकरणार्थं चतुर्भिर्गुण्यते जाताः पञ्चाशत्, अधस्तनोऽपि सप्ततिलक्षणच्छेदराशिश्चतुर्भिर्गुण्यते जाते द्वे शते अशीत्यधिके, ततो भूयोऽपि शून्यं शून्येन पातनाल्लब्धाः पञ्च अष्टाविंशतिभागाः “ ते पलस्योपमासङ्घयेयभागहीनाः क्रियन्ते, आगतं सूत्रोक्तं परिमाणं, अनेनैव गणितक्रमेणं लोहितवर्णनाम्नो जघन्यस्थिती षट् अष्टाविंशतिभागाः पल्योपमासङ्घयेयभाहीनाः, उत्कर्षतस्तस्य स्थितेः पञ्चदशसागरोपमकोटीकोटीप्रमाणत्वात्, नीलवर्णनाम्नः सप्ताष्टाविंशतिभागाः पल्योपमसाङ्ख्येयभागहीनाः, उत्कर्षतस्तस्य स्थितेः सार्द्धसप्तदशसागरोपमकोटीकोटीप्रमाणत्वात्, 'कालवण्णनामाए जहा सेवट्ठसंघयणस्से ति 11 13 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy