________________
प्रज्ञापनाउपाङ्गसूत्रम् - २ - २३/२//५४१ सेवार्त्तसंहननस्येव जघन्यतो द्वौ सागरोपमस्य सप्तभागौ पल्योपमासङ्घयेयभागहीनौ उत्कर्षतो विंशतिसागरोपमकोटीकोटयः कृष्णवर्णनाम्नोऽपि वक्तव्या इति भावः,
सुरभिगन्धनाम्नः शुक्लवर्णनाम्न इव, 'सुक्किल्लसुरभिमहुराण दस उ' इति वचनात्, दुरभिगन्धनाम्नो यथा सेवार्त्तसंहननस्य तच्चानन्तरमेवोक्तमिति न पुनरुच्यते,
'रसाणं महुरादीणं जहा वण्णाणं भणियं तहा परिवाडीए भाणियव्व' मिति, रसानां मधुरादीनां परिपाट्या - क्रमेण तथा वक्तव्यं यथा वर्णानामुक्तं तच्चैवं - मधुररसन्नाम्नो जघन्या स्थितिरेकः सागरोपमस्य सप्तभागः पल्योपमासङ्घयेयभागहीनः, उत्कर्षतो दश सागरोपमकोटीकोटीयो दश वर्षशतान्यबाधा, अबाधारहिता कर्मस्थितिः कर्मदलिकनिषेक, अम्लरसनाम्नो जघन्यतः पश्च सागरोपमस्याष्टाविंशतिभागाः पल्योपमासङ्घयेयभागहीनाः, उत्कर्षतोऽर्द्धत्रयोदशसागरोपमकोटीकोटयो अर्द्धत्रयोदश शतान्यबाधा, कषायरसनाम्नो जघन्यतः षट् अष्टाविंशतिभागाः सागरोपमस्य पल्योपमासङ्ख्येयभागोनाः, उत्कर्षतः पञ्चदश सागरोपमकोटीकोटयः, पञ्चदश वर्षशतान्यबाधा, कटुकरसनाम्नो जघन्यतः सागरोपमस्य सप्ताष्टाविंशतिभागाः पल्योपमासङ्घयेयभागहीनाः, उत्कर्षतः सार्द्धसप्तदश सागरोपमकोटीकोटयः सार्द्धसप्तदश शतान्यबाधा, तिक्तरसनाम्नो जघन्यतःसागरोपमस्य द्वौ सप्तभागौ पल्योपमासङ्घयेयभागहीनौ, उत्कर्षतो विंशतिः सागरोपमकोटीकोटयो विंशतिर्वर्षशतान्यबाधा अबाधाकालहीना च कर्मस्थितिः कर्मदलिकनिषेक इति,
स्पर्शा द्विविधाः, तद्यथा - प्रशस्ता अप्रशस्ताश्च तत्र प्रशस्ता मृदुलघुस्निग्धोष्णरूपाः अप्रशस्ताः कर्कशगुरुरूश्रशीतरूपाः, प्रशस्तानां जघन्यतः स्थितिरेकः सागरोपमस्य सप्तभागः पल्योपमासङ्घयेयभागहीनः, उत्कर्षतो दश सागरोपमकोटीकोटयो दश वर्षशतान्यबाधा अबाधाकालहीना कर्मस्थितिः कर्मदलिकनिषेकः, अप्रशस्तानां जघन्यतो द्वौ सागरोपमस्य सप्तभागी पल्योपमासङ्घयेयभागहीनौ उत्कर्षतो विंशतिः सागरोपमकोटीकोटयो विंशतिर्षर्षशतान्यबाधा अबाधाकालोना कर्मस्थितिः कर्मदलिकनिषेकः,
१९४
तथा चाह-‘फासा जे अप्पसत्था तेसिं जहा सेवट्ठस्स जे पसत्था तेसिं जहा सुक्किलवण्णनामस्स' इति, नरकानुपूर्वीनाम्नो जघन्यतः सागरोपमसहस्रस्य द्वौ सप्तभागौ द्वौ सागरोपमस्य सप्तभागी सहस्रगुणिताविति भावः, भावना नरकगतिवद् भावयितव्या, मनुष्यानुपूर्वीनामसूत्रे "जहन्नेणं सागरोवमस्स दिवडुं सत्तभागं पलिओवमस्स असंखिजाजइभागेणं ऊणगं' ति, तदुत्कृष्टस्थितेः पञ्चदशसागरोपमकोटीकोटीप्रमाणत्वात् उक्तं चान्यत्रापि
119 11
"तीसं कोडाकोडी असायआवरणअंतरायाणं ।
मिच्छे सयरी इत्थीमणुदुगसायाण पन्नरस ॥”
देवानुपूर्वीनाम्नोऽपि जघन्यतः एकः सागरोपमस्य सप्तभागः सहस्रगुणितः पल्योपमासंख्येयभागहीनः उत्कर्षतो हि तत्स्थितेः दशसागरोपमकोटीकोटीप्रमाणत्वात्, तथा चोक्तम्"पुंहासरईउच्चे सुभखगतिथिराइछक्क देवदुगे ।
॥१॥
दस सेसाणं वीसा एवइयाऽबाह वाससया ।।”
बन्धश्चांस्य जघन्यतोऽसंज्ञिपञ्चेन्द्रियेषु इति, तथा सूक्ष्मनामसूत्रे जघ्यतो नव सागरोपमस्य पञ्चत्रिंशद्भागाः पल्योपमासङ्घयेयभागहीना द्वीन्द्रियजातिनाम्न इव भावनीया, सूक्ष्मनाम्नो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org