________________
पद-२३, उद्देशकः-२, द्वारं
१९१ सागरोपमकोटीकोटीप्रमाणया भागे ह्रियमाणे 'शून्यं शून्येन पातयेदिति वचनात् लब्धास्त्रियः सागरोपमस्य सप्तभागाः,तेपल्योपमासङ्घयेयभागहीनाः क्रियन्ते, ततोभवतियथोक्तंजघन्यस्थितिपरिमाणमिति, सायावेयणिज्जस्स ईरियावहियबंधगं पडुच्च अजहन्नमणुक्कोसेणं दो समया संपराइयबंधगं पडुच्च जहन्नेणं बारस मुहुत्ता' इति प्रागेव भावितं,
असातावेदनीयस्य जघन्यतस्त्रयः सप्तभागाः पल्योपमासङ्घयेयभागेना निद्रापञ्चकवद् भावनीयाः, तस्याप्युत्कर्षतः स्थितेस्त्रिंशत्सागरोपमकोटीकोटीप्रमाणत्वात्,
सम्यकत्ववेदनीयस्य यत् जघन्यतः स्थितिपरिणाममन्तर्मुहूर्त उत्कर्षतः षट्षष्टिःसागरोपमाणिसातिरेकाणितवेदनमधिकृत्यवेदितव्यंनबन्धमाश्रित्य, सम्यकत्वसम्यग्मिथ्यात्वयोर्बन्धाभावात्, मिथ्यात्वपुद्गला एव हि जीवेन सम्यकत्वानुगुणविशोधिबलतस्त्रिधा क्रियन्ते, तपथा-सर्वविशुद्धाःअर्धविशुद्धाःअविशुद्धाश्च, तत्रयेसर्वविशुद्धास्सेतसम्यकत्ववेदनीयव्यपदेशं लभन्ते येऽर्द्धविशुद्धास्ते सम्यग्मिथ्यात्ववेदनीयव्यपदेशंअविशुद्धा मिथ्यात्ववेदनीयव्यपदेशमतो न तयोर्बन्धसम्भवः, यदा तु तेषां सम्यकत्वसम्यग्मिथ्यात्वपुद्गलानां स्वरूपतः स्थितिश्चिन्त्यते तदाऽन्तर्मुहूर्तोनसप्ततिसागरोपमकोटीकोटीप्रमाणा वेदितव्या, सा च तावती यथा भवति तथा कर्मप्रकृतिटीकायां सङ्कमकरणे भावितेति ततोऽवधार्य,
मिथ्यात्ववेदनीयस्य जघन्या स्थितिरेकं सागरोपमं पल्योपमासङ्ख्येयभागोनमुत्कर्षतस्तस्योत्कृष्टस्थितेः सप्ततिसागरोपमकोटीकोटीप्रमाणत्वात्, सम्यग्मिथ्यात्ववेदनीयस्य जघन्यत उत्कर्षतोवाअन्तर्मुहूर्तवेदनापेक्षया, पुद्गलानांत्ववस्थानमुत्कर्षतःप्रागेवोक्तं, कषायद्वादशकस्यानन्तानुबन्धिनचतुष्टयाप्परत्याख्यानचतुष्टयप्रत्याख्यानावरणचतुष्टरूपस्य प्रत्येकं जघन्या स्थितिश्चत्वारः सागरोपमसप्तभागा पल्योपमासङ्ख्येयभागोनाः, उत्कर्षतस्तेषां स्थितश्चत्वारिंशसागरोपमकोटीकोटीप्रमाणत्वात्, सजवलनानांचजघन्या स्थितिर्मासद्वयादिप्रमाणाक्षपकस्य स्वबन्धचरमसमयेऽवसातव्या,
स्त्रीवेदस्य जघन्या स्थितिद्व्यर्द्धसागरोपमस्य सप्तभागाः पल्योपममासङ्खयेयभागोनाः, कथमिति चेत्, उच्यते, त्रैराशिककरणवशात्, तथाहि-यदि दशानां सागरोपमकोटीकोटीनां एक: सागरोपमसप्तभागोलभ्यतेततःपञ्चदशभिःसागरोपमकोटीकोटीभिः किंलभ्यते?,अत्रान्त्येन राशिना पञ्चदशलक्षणेन मध्यो राशिरेकलक्षणो गुण्यते, जाताः पञ्चदशैव, 'एकस्य गुणने तदेव भवतीति वचनात, तेषामाद्येन राशिना दशकलक्षणेन भागहरणं लब्धा सार्धाः सप्तभागा इति,
'हासरइअरइभयसोगदुगुंछाणं जहन्नुक्कोसठिई भाणियव्वा' इति हास्यरतिअरतिभयशोकजुगुप्सानां जघन्या उत्कृष्टा च स्थितिर्वक्तव्या, सा च सुप्रसिद्धत्वानोक्ता, कथं वक्तव्येति चेत्, उच्यते, 'हासरईणं पुच्छा गो० ! जहन्नेणं एगो सागरोवमस्स सत्तभागो पलिओवमस्स असंखेजभागेणऊणोउक्को० दस सागरोवमकोडीकोडीओदसवाससयाईअबाहाजावनिसेगो, अरइ भयसोगदुगुंछाणं पुच्छा, गो० ! जहन्नेणं सागरोवमस्स दोन्नि सत्तभागा पलिओवमस्स असंखेजइभागेणऊणगा उक्कोसेणंवीसंसागरोवमकोडाकोडीओवीससयाइंअबाहाजाव निसेगो' इतिज्ञेयं, तिर्यगायुषिमनुष्यायुषिचत्रीणिपल्योपमानिपूर्वकोटित्रिभागाभ्यधिकानिइति यदुक्तं तत् पूर्वकोट्यायुषस्तिर्यग्मनुष्यान् बन्धकानधिकृत्य वेदितव्यं, अन्यत्रैतावत्याःस्थितेः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org