SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १९० प्रज्ञापनाउपाङ्गसूत्रम् - २ - २३/२//५४१ अंतराए णं पुच्छा, गो० ! जह० अंतो० उक्को० तीसं सागरोवमकोडीकोडीओ तिन्निय वाससहस्साइं अबाहा, अबाहूणिया कम्मट्टिती कम्मनिसेगो । वृ. 'नाणावरणिज्जस्स णं भंते! कम्मस्स केवइयं कालं ठिती पं०' इति ज्ञानावरणीयस्य मतिश्रुतावधिमनःपर्यायकेवलावरणभेदतः पञ्चप्रकारस्य कर्णो भदन्त ! कियन्तं कालं यावत् स्थितिः प्रज्ञप्ता ?, एवमुक्ते भगवनाहा- गौतम ! जघन्येनान्तर्मुहूर्तं तच्च सर्वलघु सूक्ष्मसम्परायस्य क्षपकस्य स्वगुणस्थानकचरमसमये वर्त्तमानस्य वेदितव्यं, उत्कर्षतस्त्रिंशत्सागरोपमकोटीकोट्यः, साच मिथ्याध्ष्टेरुत्कृष्टे सङ्कलेशे वर्त्तमानस्यावसातव्या, तदेवं नियता प्रागुक्तस्य प्रश्नोत्तरसिद्धिः, इदमपृष्टव्याकरणं त्रीणि वर्षसहस्राणि अबाधा अबाधा अबाधोना कर्मस्थितिः कर्मदलिकनिषेक इति किमर्थमिति चेत, उच्यते, स्थितिद्वैविध्यप्रदर्शनार्थ, तथाहि द्विविधा स्थितिः–कर्मरूपातवस्थानलक्षणा अनुभवयोग्या च, तत्र कर्मरूपताऽवसअथानलक्षणां स्थितिमधिकृत्येदमुक्तं त्रिंशत्सागरोपमकोटाकोट्य इति, अनुभवयोग्या च वर्षसहस्रत्रयोना यतः, आहच - ' त्रीणि वर्षसहस्राणि अबाधा' किमुक्तं भवति ? - ज्ञानावरणीयं कर्म उत्कृष्टसल्थितिकं बद्धं सत् बन्धसमयादारभ्या त्रीणि वर्षसहस्रणि यावत् न किञ्चिदपि स्वोदयतो जीवस्य बाधामुत्पादयति, तावत्कालमध्ये दलिकनिषेकस्याभावात्, तत् ऊर्ध्वं हि दलिकनिषेकः, तथा चाह - अबाधोना - अबाधाकालपरिहीना अनुभवयोग्या कर्मस्थितिः, किमुक्तं भवति ? –कर्मनिषेकः, स चैवं - प्रथमस्थिती प्रभूतो द्वितीयस्थितौ विशेषहीनः तृतीयस्थितौ विशेषहीनः एवं विशेषहीनो विशेषहीनश्च तावद् वक्तव्यो यावत्स्थितिचरमसमयः, एतावता च यदुक्तमग्रायणीयाख्ये द्वीतीयपूर्वे कर्मप्रकतिप्राभृते बन्धविधाने स्थितिबन्धाधिकारे “ चत्वार्यनुयोगद्वाराणि, तद्यथा स्थितिबन्धस्थानप्ररूपणा अबाधाकण्डकप्ररूपणा उत्कृष्टनिषेकप्ररूपणा अल्पबहुत्वप्ररूपणा चे 'ति, तत्रोत्कृष्टाऽबाधकण्डकप्ररपणा उत्कृष्टनिषेकप्ररूपणाच दर्शिता भवति, अबाधाकालपरिज्ञानोपायश्चायं - यस्य यावत्यः, सागरोपमकोटीकोट्यस्तस्य तावन्ति वर्षशतान्यबाधा, यस्य पुनः सागरोपमकोटीकोट्या मध्ये स्थितिस्तस्यायुर्वर्जस्यान्तर्मुहूर्त्तमायुषस्तु जघन्यतोऽन्तर्मुहूर्त्तमबाधा उत्कर्षतः पूर्वकोटीत्रिभागः, तत एवमबाधाकालं परिभाव्याबाधाविषयाणि सूत्राणि स्वयं भावनीयानि, निद्रापञ्चकविषयं सूत्रमाह- 'निद्दापंचसगस्स णं भंते!' इत्यादि, अत्र जघन्यतः स्थितिः त्रयः सागरोपमस्य सप्तभागाः पल्योपमासङ्घत्येयभागोनाः, काऽत्र भावनेति चेत्, उच्यते, पञ्चानां ज्ञानावरणप्रकृतीना चतसृणां दर्शनावरणप्रकृतीनां चक्षुर्दर्शनावरणादीनां सञ्जवलनलोभस्य पञ्चानामन्तरायप्रकृतीनां च जघन्या स्थितिरन्तर्मुहूर्त्तं, सातवेदनीयस्य सकषायिकस्य द्वादश मुहूर्त्ता, इतरस्य तु द्वौ समयौ, प्रथमसमये बन्धो द्वितीयसमये वेदनं तृतीयसमये त्वकर्मीभवनमिति, यशः कीर्त्यचैर्गोत्रयोरष्टौ मुहूर्त्ता, पुरुषवेदस्याष्टौ संवत्सराणि, सञ्जवलनक्रोधस्य द्वौ मासौ, सञ्जवलनमानस्यैको मासः, सञ्जवलनमायाया अर्द्धमासः, शेषाणां तु प्रकृतीनां या या स्वकीया उत्कृष्टा स्थितिस्तस्या उत्कृष्टयाः सप्ततिसागरोपमकोटीकोटीप्रमाणाया मिथ्यात्वस्थित्या भागे हृते यल्लभ्यते तत्पल्योपमासङ्कयेयभागहीनंजघन्यस्थितिपरिमाणं, तत्र निद्रापञ्चकस्योत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटीकोट्यः, तासां मिथ्यात्वस्थित्या सप्तति For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy