Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 16
________________ द्वारं-१, अध्ययनं -१, असंयताः - असंयमवन्तः अविरताः - न विशेषतो ये तपोऽनुष्ठाने रताः 'अनिहुयपरिणामदुष्पयोगी ति अनिभृतः - अनुपशमपरः परिणामो येषां ते तथा, दुष्प्रयोगाः - दुष्टमनोवाक्कायव्यापारा येषां सन्ति ते तथा ततः पदद्वयस्य कर्मधारयः, प्राणिवधं प्राणातिपातं किंभूतं ? -बहुविधं भयङ्करं, पाठान्तरेण भयङ्करं, तथा 'बहुविधा' बहवः प्रकारा यस्य स तथा तं, सप्रभेदभेदयुक्तमित्यर्थः, किंभूतास्ते ? - परदुःखोत्पादनप्रसक्ताः, तथा 'इमेहिं' एतेषु प्रत्यक्षेषु त्रसस्थावरेषु जीवेषु प्रतिनिविष्टाः -- तदरक्षणतस्तेषु वस्तुतो द्वेषवन्तः 'किं ते' त्ति कथं तं प्राणवधं कुर्वन्तीत्यर्थः, ३६९ तद्यथेति वा - 'पाठीणे' त्यादि, पाठीना - मत्स्यविशेषाः तिमयस्तिमिङ्गलाश्च - महामत्स्या महामत्स्यतमाः अनेकझषाः - विविधमत्स्याः सूक्ष्ममत्स्यखलमत्स्ययुगमत्स्यादयः विविधजातयोनानाजातीया मण्डूका द्विविधाः कच्छपाः-मासंकच्छप अस्थिकच्छपभेदात् नक्रा-मत्स्यविशेषा एव 'मकरदुविह' त्ति मकरा - जलचरविशेषाः सुंडामकरमत्स्यमकरभेदेन द्विभेदा ग्राहाजलजन्तुविशेषा एव दिलिवेष्टमन्दुकसीमाकारपुलकास्तु ग्राहभेदा एव सुंसुमारा-जलच विशेषा, तत एषां द्वन्द्वः ततश्च ते च ते बहुप्रकाराश्चेति कर्म्मधारयोऽतस्तान् ध्वन्तीति वक्ष्यमाणेन योगः, इह च द्वितीयाबहुवचनेऽप्येकाराभावश्छान्दसत्वात्, 'जलचरविहाणाकए य एवमाइ'त्ति जलचराणां विधानानि - भेदास्तान्येव विधानकानि तानि कृतानि - विहितानि यैस्तथा तान् जलचरविधानककृतांश्च, इह च कशब्दलोपेन विधानशब्दस्यान्तदीर्घत्वं, एवमादीन्- पाठीनादीन्, तथा कुरङ्गा-मृगा रुरवः - तद्विशेषाः सरभा - महाकाया आटव्यपशुविशेषाः परासरेति पर्याया ये हस्तिनमपि पृष्ठे समारोपयन्ति चमरा - आरण्यगावः संबरा - येशामनेकशाखे शृङ्गे भवत 'हुरमे 'त्ति उरभ्रा मेषाः शशाः- शशका लोमटकाकृतयः प्रशया-द्विखुराटव्यपशुविशेषा गोणागावः रोहिताः- चतुष्पदविशेषाः पाठान्तरेण त एव हया- अश्वा गजाहस्तिनः खरा - रासभाः करभा-उष्ट्राः खङ्गा-येशां पार्श्वयोः पक्षवच्चर्माणि लम्बन्ते श्रृङ्गं चैकं शिरसि भवति वानरा-मर्कटाः गवया० गवाकृतयो वर्त्तुलकण्ठाः वृका - ईहामृगपर्यायाः नाखरविशेषाः श्रृगालाजम्पबुकाः कोला - उंदराकृतयः पाठान्तरेण कोका-नाखरविशेषाः मार्जारा- बिरालाः 'कोलसुणग’त्ति महासूकराः अथवा क्रोडा - शूकरा श्वानः- कौलेयकाः श्रीकन्दलका आवर्त्ताश्च एकखुरविशेषाः कोकंतिका लोमटका य रात्रौ कौ कौ एवं रवन्ति गोकर्णा-द्विखुरचतुष्पदविशेषा मृगा - सामान्यहरिणाः कुरङ्गादयस्तु प्रागभिहिताः श्रृङ्गवर्णादिविशेषणास्तद्विशेषाः सामर्थ्यादत्र गम्याः महिषाः - प्रतीताः 'विग्घये' त्ति व्याघ्रा नाखरविशेषाः छगला-अजाः द्वीपिका:-- चित्रकाभिधाना नाखरविशेषाः श्वानः- आटव्या एव कौलेयकाः तरक्षाः अच्छा भल्लाः शार्दूलाश्च व्याघ्रविशेषाः सिंहा- हरयः चित्तला - नाखरविशेषा एव पाठान्तरेण चित्रलाः - हरिणाकृतयो द्विखुरविशेषास्तत एषां कुरङ्गादीनां द्वन्द्वः, 'चउप्पयविहाणाकए एवमाइ' त्ति चतुष्पदविधानकानि तज्जातिविशेषाः कृतानि विहितानि यैव्यक्तिभूतैः कुरङ्गादिभिस्ते तथा, ततः पूर्वपदेन कर्म्मधारयः, ततस्तांश्च एवमादीन् - कुरङ्गादिप्रकारान्, तथा अजगराः - शयुपर्यायः उरः परिसर्णविशेषाः गोणसा - निष्फणाहिविशेषाः वराहयो- दृष्टिविषाहयः फणाकरणदक्षाः मुकुलिनो-ये फणा न कुर्वन्ति काकोदरा दर्भपुष्पाश्चदर्वीकरसर्प्यविशेषाः, आसालिका महोरगाश्चोरः परिसर्प्पविशेषाः तत्रासालिका यच्छरीरं द्वादशयोजनप्रमाणमुत्कर्षतो भवति, 724 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 192