________________
द्वारं-१, अध्ययनं -१,
असंयताः - असंयमवन्तः अविरताः - न विशेषतो ये तपोऽनुष्ठाने रताः 'अनिहुयपरिणामदुष्पयोगी ति अनिभृतः - अनुपशमपरः परिणामो येषां ते तथा, दुष्प्रयोगाः - दुष्टमनोवाक्कायव्यापारा येषां सन्ति ते तथा ततः पदद्वयस्य कर्मधारयः, प्राणिवधं प्राणातिपातं किंभूतं ? -बहुविधं भयङ्करं, पाठान्तरेण भयङ्करं, तथा 'बहुविधा' बहवः प्रकारा यस्य स तथा तं, सप्रभेदभेदयुक्तमित्यर्थः, किंभूतास्ते ? - परदुःखोत्पादनप्रसक्ताः, तथा 'इमेहिं' एतेषु प्रत्यक्षेषु त्रसस्थावरेषु जीवेषु प्रतिनिविष्टाः -- तदरक्षणतस्तेषु वस्तुतो द्वेषवन्तः 'किं ते' त्ति कथं तं प्राणवधं कुर्वन्तीत्यर्थः,
३६९
तद्यथेति वा - 'पाठीणे' त्यादि, पाठीना - मत्स्यविशेषाः तिमयस्तिमिङ्गलाश्च - महामत्स्या महामत्स्यतमाः अनेकझषाः - विविधमत्स्याः सूक्ष्ममत्स्यखलमत्स्ययुगमत्स्यादयः विविधजातयोनानाजातीया मण्डूका द्विविधाः कच्छपाः-मासंकच्छप अस्थिकच्छपभेदात् नक्रा-मत्स्यविशेषा एव 'मकरदुविह' त्ति मकरा - जलचरविशेषाः सुंडामकरमत्स्यमकरभेदेन द्विभेदा ग्राहाजलजन्तुविशेषा एव दिलिवेष्टमन्दुकसीमाकारपुलकास्तु ग्राहभेदा एव सुंसुमारा-जलच विशेषा, तत एषां द्वन्द्वः ततश्च ते च ते बहुप्रकाराश्चेति कर्म्मधारयोऽतस्तान् ध्वन्तीति वक्ष्यमाणेन योगः,
इह च द्वितीयाबहुवचनेऽप्येकाराभावश्छान्दसत्वात्, 'जलचरविहाणाकए य एवमाइ'त्ति जलचराणां विधानानि - भेदास्तान्येव विधानकानि तानि कृतानि - विहितानि यैस्तथा तान् जलचरविधानककृतांश्च, इह च कशब्दलोपेन विधानशब्दस्यान्तदीर्घत्वं, एवमादीन्- पाठीनादीन्, तथा कुरङ्गा-मृगा रुरवः - तद्विशेषाः सरभा - महाकाया आटव्यपशुविशेषाः परासरेति पर्याया ये हस्तिनमपि पृष्ठे समारोपयन्ति चमरा - आरण्यगावः संबरा - येशामनेकशाखे शृङ्गे भवत 'हुरमे 'त्ति उरभ्रा मेषाः शशाः- शशका लोमटकाकृतयः प्रशया-द्विखुराटव्यपशुविशेषा गोणागावः रोहिताः- चतुष्पदविशेषाः पाठान्तरेण त एव हया- अश्वा गजाहस्तिनः खरा - रासभाः करभा-उष्ट्राः खङ्गा-येशां पार्श्वयोः पक्षवच्चर्माणि लम्बन्ते श्रृङ्गं चैकं शिरसि भवति वानरा-मर्कटाः
गवया० गवाकृतयो वर्त्तुलकण्ठाः वृका - ईहामृगपर्यायाः नाखरविशेषाः श्रृगालाजम्पबुकाः कोला - उंदराकृतयः पाठान्तरेण कोका-नाखरविशेषाः मार्जारा- बिरालाः 'कोलसुणग’त्ति महासूकराः अथवा क्रोडा - शूकरा श्वानः- कौलेयकाः श्रीकन्दलका आवर्त्ताश्च एकखुरविशेषाः कोकंतिका लोमटका य रात्रौ कौ कौ एवं रवन्ति गोकर्णा-द्विखुरचतुष्पदविशेषा मृगा - सामान्यहरिणाः कुरङ्गादयस्तु प्रागभिहिताः श्रृङ्गवर्णादिविशेषणास्तद्विशेषाः सामर्थ्यादत्र गम्याः महिषाः - प्रतीताः 'विग्घये' त्ति व्याघ्रा नाखरविशेषाः छगला-अजाः द्वीपिका:-- चित्रकाभिधाना नाखरविशेषाः श्वानः- आटव्या एव कौलेयकाः तरक्षाः अच्छा भल्लाः शार्दूलाश्च व्याघ्रविशेषाः सिंहा- हरयः चित्तला - नाखरविशेषा एव पाठान्तरेण चित्रलाः - हरिणाकृतयो द्विखुरविशेषास्तत एषां कुरङ्गादीनां द्वन्द्वः, 'चउप्पयविहाणाकए एवमाइ' त्ति चतुष्पदविधानकानि तज्जातिविशेषाः कृतानि विहितानि यैव्यक्तिभूतैः कुरङ्गादिभिस्ते तथा, ततः पूर्वपदेन कर्म्मधारयः, ततस्तांश्च एवमादीन् - कुरङ्गादिप्रकारान्, तथा अजगराः - शयुपर्यायः उरः परिसर्णविशेषाः गोणसा - निष्फणाहिविशेषाः वराहयो- दृष्टिविषाहयः फणाकरणदक्षाः मुकुलिनो-ये फणा न कुर्वन्ति काकोदरा दर्भपुष्पाश्चदर्वीकरसर्प्यविशेषाः, आसालिका महोरगाश्चोरः परिसर्प्पविशेषाः तत्रासालिका यच्छरीरं द्वादशयोजनप्रमाणमुत्कर्षतो भवति,
724
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org