________________
३७०
प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/७ क्षयकाले च महानगरस्कन्धावारादीनामध उत्पद्यते, महोरगास्तु मनुष्यक्षेत्रबहि विनो यच्छरीरंयोजनसहनप्रमाणमुत्कर्षत आख्यायतइति,तत एतेषांद्वन्द्वः, ततः तेषांउरगविधानकानि कृतानि यैस्ते तथा ततः कर्मधारयः, ततश्च तांश्च एवमादीनि, तथा क्षीरलाः शरम्बाश्चभुजपरिसर्पविशेषाः सेहाः तीक्ष्णशलालाकुलशरीराः शल्यका-यचर्ममकतेलकैरङ्गरश्राविधीयते गोधा उन्दुरा नकुलाश्च प्रतीताः शरटाः-कृकलाशाजाहकाः कण्टकावृतशरीराः मुगुंसाः-खाडलिल्लाकृतयः खाडहिलाः-कृष्णशुक्लपट्टाङ्गितशरीराः शून्यदेवकुलादिवासिन्यः वातोत्पत्तिका रूढ्यावसेया गृहकोकिलिकाः-गृहगोधिकाः, एतेषां द्वन्द्वः,
तत एते च ते सरिसृपगणाश्चेति कर्मधारयस्ततस्तांश्च एवमादीन्-क्षीरलादिप्रकारानित्यर्थः,तथा कादम्बा-हंसविशेषाः बकाश्च-बकोटकाः बलाकाश्च-बिसकण्ठिकाः सारसाश्चदाघिाटाः आडोसेतीकाश्च कुललाश्च वंजुलाश्च-खदिरचञ्चवः पारिप्लवाश्च कीवाश्च शकुनाश्च पिपीलिकाश्च-पीपीतिकारका हंसाश्च-श्वेतपक्षाः धार्तराष्ट्रकाश्च-कृष्णचरणानना हंसा एव भासाश्च-सकुन्ताः 'कुलीकोस'त्ति कुटीक्रोशाश्चक्रौञ्चाश्चदकतुण्डाश्चढेणिकालकाश्चशूचीसुखाश्च कपिलाश्चपिङ्गलाक्षकाश्च कारंडकाच चक्रवाकाश्च-रथाङ्गाः उक्रोशाश्च-कुरराः गरुडाश्च-सुपर्णाः पिङ्गुलाश्च शुकाश्च-कीरा बर्हिणश्च-कलापवन्मयूराः मदनशालाश्च- सारिकाविशेषाः
नन्दीमुखाश्च नन्दमानकाश्च कोरंकाश्च भृङ्गराकाश्च भृङ्गारिकाश्च-रसति निशिभूमौ द्वयङ्गुलशीरराः इत्येवंलक्षणाः कोणालकाश्च जीवजीवकाच तित्तिराश्च वर्तकाश्च लावकाश्च कपिअल-काश्च कपोतकाश्च पारापतकाश्चचिटिकाश्च कलंबिका ढिंकाश्च कुर्कुटाश्च ताम्रचूडाः वेसराश्च मयूरकाश्चकलापवर्जिताःचकोरकाश्च हदपुण्डरीकाश्चशालकाश्च पाठान्तरेणकरकाश्च वीरल्लश्येनाश्च श्येनाएव वायसाश्च-काकविहङ्गा भेनाशितश्च चाषाश्च-किकिदीविनः वल्गुल्यश्च चर्मास्थिलाश्च-चर्मचटका विततपक्षिणश्च मनुष्यक्षेत्रबहिर्वर्तिन इति द्वन्द्वः, तेच ते 'खहचरविहाणाकए यत्ति खचरविधानककृताश्चेति, तथा तांश्च एवमादीन्-उक्तप्रकारान्, एतेषु च शब्देषु केचिदप्रतीयमानार्थाः केचिदप्रतीयमानपर्याया नामकोशेपिकेषाञ्चिप्रयोगा-नभिधानाद, आह च॥१॥ "जीवंजीवकपिञ्जलचकोरहारीतवजुलकपोताः।
कारण्डवकादम्बकककुराधाः पक्षिजातयो जैयाः ॥” इति, पूर्वोक्तानेव सङ्ग्रहवचनेनाह-जलस्थलखचारिणश्च, चशब्दो जलचरादिसामान्यसमुच्चायार्थः पञ्चेन्द्रियान् पशुगणान् विविधान् ‘बियतियचउरिदिय'त्ति द्वेच त्रीणि च चत्वारिच पञ्चचइन्द्रियाणि येषांते तथा द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाश्चेत्यर्थःततस्तान्, विविधान् कुलभेदेन जीवान-जन्तून् प्रियजीवितान्-अभिमतप्राणधारणान् मरणलक्षणस्य दुःखस्य मरणदुःखयोर्वाप्रतिकूलाः-प्रतिपन्धिनो येते तथा तान्वराकान्-तपस्विनः, किमित्यत आहध्वन्ति–विनाशयन्ति, बहुसकिलष्टकम्मणिः सत्त्वा इति गम्यते।
एवं तावद्वध्यद्वारेण प्राणवधस्य प्रकार उक्तोऽथ प्रयोजनद्वारेण स उच्यते, एभिः-वक्ष्यमाणैः प्रत्यक्षैर्विविधैः कारणैः-प्रयोजनैः, किं ते ति किं तत्प्रयोजनं ?, तद्यथेति वा, चर्म-त्वक् वसा-शारीरः स्नेहविशेषः मांसं-पलं मेदो-देहधातुविशेषः शोणितं-रक्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org