________________
अध्यात्मसार:
॥१४०॥
-स्वजनममत्वत्यागः-- 'माता पिता मे भ्राता मे, भगिनी वल्लभा च मे । पुत्राः सुता मे मित्राणि, ज्ञातयः संस्तुताश्च मे ॥७॥ इत्येवं ममताव्याधि वर्द्धमानं प्रतिक्षणम् ।
जनः शक्नोति नोच्छेत्तु, विना ज्ञानमहौषधम् ॥८॥ टीका:-मम माता, मे पिता, मे भ्राता, मे भगिनी, मे वल्लभा-प्रिया, मे पुत्राः, मे सुता:-पुथ्यः, मे मित्राणि, ज्ञातयो- एकज्ञातीयवर्गाः, मे, मे संस्तुताः--परिचिता इत्येवं प्रतिक्षणं बर्द्धमानं ममतानामकव्याधि, ज्ञानरूपं महौषधं विना, जन उच्छेत्त न शक्नोति--समर्थो न भवतीति ॥७॥८॥
-धनममत्वत्याग:ममत्वेनेव निःशङ्क-मारम्भादौ प्रवर्तते ।
कालाकालसमुत्थायी, धनलोभेन धावति ॥॥ टीकाः -स्वजनादिममत्वहेतुना निःशडकं प्रभुपापदुर्गतिप्रभृतिभयं विना, जीव आरम्भादौ--जीव- हिंसादिघोरपापकर्मणि प्रवर्तते--प्रवृत्ति कुरुते, 'कालाऽकालसमुत्थायी' काले काले च समुत्थानशीलः,
॥१४॥
Jin Education Inter
For Private & Personal use only
www.jainelibrary.org