Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
अध्यात्मसार
॥५५९॥
'किश्चित्साम्यमवेक्ष्य ये विदधते, काचेन्द्रनीलाऽभिदाम् , तेषां न प्रमदावहा तनुधियां गूढा कवीनां कृतिः । ये जानन्ति विशेषमप्यविषमे, रेखोपरेखांशतः,
वस्तुन्यस्तु सतामितः कृतधियां, तेषां महानुत्सवः ॥६॥ ____टी० ये किश्चिच्चाकचिक्यरूपं साम्य-समानधर्ममवेक्ष्य-ज्ञात्वा 'काचेन्द्रनीलाऽभिदा विदधते' = कानस्य च नीलमणेश्चाभेदं कुबते-मन्यन्ते अर्थादन्यग्रन्थः सहेतस्याधिकृतस्य ग्रन्थस्य वर्णादिरचनाऽपेक्षया किश्चित्साम्यमवलोक्य ये सर्वग्रन्थं समानं मन्यन्ते, 'तेषां तनुधियाँ' पर्वग्रन्थ समानवादिनां स्वल्पबुद्धीनां जीवानां. 'न प्रमदाबहा गूढा कवीनां कृतिः' =विशिष्टकाव्यकर्तणां गूढार्थ-मर्मार्थतो महती कृतिःचना न प्रमोदकारिणी भवति ।
'ये विशेषमविषमेऽपि जानन्ति रेखोपरेखांशतो वस्तुनिरचनाविशिष्टे चित्रादिवस्तुनि, विषमतारहितेऽपि, तत्स्थमूक्ष्मातिसूक्ष्मविषयाणां विशेष, चित्रमध्ये सूक्ष्माऽतिसूक्ष्मरेखोपरेखांशग्रहणसमर्थदृष्टि बद् गहणन्ति तेषां कृतधियां सतां गूढा कवीनां कृतिरस्तु महानुत्सवः' तेषां संस्कृत-निपुणप्रतिभावतां विशेषज्ञानिनां सतामेवैषा गूढा कविकृतिः महानानन्दरूप उत्सवोऽस्तु इति ॥६॥
Jain Education Internatio!
For Private & Personal use only
'www.jainelibrary.org

Page Navigation
1 ... 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616