Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 604
________________ अध्यात्म सार: ॥ ५३८ ॥ Jain Education Internation ( टी०) 'अश्रान्तभ्रान्तकान्तग्रहगणकिरणैस्तापवान् स्वर्णशैल : ' = अविरतं भ्रमणं कृतवन्तः कान्ताःतेजसा मनोहरा ग्रहाणां गणास्तेषां किरणैस्तप्तः (तापितः) स्वर्णशैलो - मेरुः 'यत्कीर्तिस्फूर्तिगा नावहितसुरधुवृन्दकोलाहलेन प्रक्षुब्धस्वर्गसिन्धोः पतितजल भरैः क्षालितशैत्यमेति' - येषां यशोमाहात्म्यगाने साबधानत्रिदशवधूसमुदायस्य कलकलेन प्रकृष्टक्षोभवत् स्वर्गङ्गातः पतितैर्जलपूरैः क्षालितः = प्रक्षालनविषयीभूतः सन् शीततां प्राप्नोति सज्जनगण धुरन्धरास्ते मुनीन्द्रा नयविजयनामकपण्डिता भ्राजन्ते - शोभन्ते ।। १५ ।। प्रशस्ति : 'चक्रे प्रकरणमेतत्पदसेवापरो यशोविजयः । अध्यात्मधृतरुचीना -- मिदमानन्दावहं भवतु ॥ १६ ॥ टी० एतत्पद् सेवापरः'=मज्जन धुर्यमुनीन्द्रगुरुवर्यनय विजय पण्डितचरणसेवापरायणः, 'यशोविजयः' न्यायाचार्यन्यायविशारद श्रुतके वलिकल्प महापाध्याय श्रीमद् यशोविजय महाराजः, इदं प्रकरणं चक्रे' श्री अध्यात्मसारग्रन्थनामकं प्रकरण मेकविंशत्यधिकाराऽलडकृतं कृतवान् 'अध्यात्मधृतरुचीनामानन्दावहं भवतु ' अध्यात्मी-आत्महितकारिज्ञानक्रियात्मक धर्मेरुचिर्येषां तेषां धृतरुचीनां प्रमोदप्रकर्षकर मस्तु || १६ || For Private & Personal Use Only ॥ ५६८॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616