SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार ॥५५९॥ 'किश्चित्साम्यमवेक्ष्य ये विदधते, काचेन्द्रनीलाऽभिदाम् , तेषां न प्रमदावहा तनुधियां गूढा कवीनां कृतिः । ये जानन्ति विशेषमप्यविषमे, रेखोपरेखांशतः, वस्तुन्यस्तु सतामितः कृतधियां, तेषां महानुत्सवः ॥६॥ ____टी० ये किश्चिच्चाकचिक्यरूपं साम्य-समानधर्ममवेक्ष्य-ज्ञात्वा 'काचेन्द्रनीलाऽभिदा विदधते' = कानस्य च नीलमणेश्चाभेदं कुबते-मन्यन्ते अर्थादन्यग्रन्थः सहेतस्याधिकृतस्य ग्रन्थस्य वर्णादिरचनाऽपेक्षया किश्चित्साम्यमवलोक्य ये सर्वग्रन्थं समानं मन्यन्ते, 'तेषां तनुधियाँ' पर्वग्रन्थ समानवादिनां स्वल्पबुद्धीनां जीवानां. 'न प्रमदाबहा गूढा कवीनां कृतिः' =विशिष्टकाव्यकर्तणां गूढार्थ-मर्मार्थतो महती कृतिःचना न प्रमोदकारिणी भवति । 'ये विशेषमविषमेऽपि जानन्ति रेखोपरेखांशतो वस्तुनिरचनाविशिष्टे चित्रादिवस्तुनि, विषमतारहितेऽपि, तत्स्थमूक्ष्मातिसूक्ष्मविषयाणां विशेष, चित्रमध्ये सूक्ष्माऽतिसूक्ष्मरेखोपरेखांशग्रहणसमर्थदृष्टि बद् गहणन्ति तेषां कृतधियां सतां गूढा कवीनां कृतिरस्तु महानुत्सवः' तेषां संस्कृत-निपुणप्रतिभावतां विशेषज्ञानिनां सतामेवैषा गूढा कविकृतिः महानानन्दरूप उत्सवोऽस्तु इति ॥६॥ Jain Education Internatio! For Private & Personal use only 'www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy