Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 594
________________ अध्यात्म सार ॥५५८॥ -आध्यात्मिकी कथां श्रुत्वा सन्तः सुखं गाहन्ते'अध्यात्माऽमृतवर्षिणीमपि कथा-मापीय सन्तः सुखम् , गाहन्ते विषमुगिरन्ति तु खला, वैषम्यमेतत्कुतः । नेदं चाद्भुतमिन्दुदीधितिपिबाः प्रीताश्चकोरा भृशम् , किं न स्युर्बत चक्रवाकतरुणाः, त्वत्यन्तखेदातुराः ॥४॥ टी. अध्यात्मनामकदिव्यामृतवर्षिणीमपि 'कथामापीय' कल्याणीरूपा का श्रुत्वा 'सन्तः सुखं गाहन्ते'-अमन्दानन्दमेदुराः सन्तो भवन्ति, परन्तु खला:-दुर्जना दोषोल्लेखितकटुतर सरस्वतीग्रहाररूपं विषमुगिरन्ति-वमन्ति पुनः पुनः, 'एतद्वैषम्यं कुतः? कस्मात्कारणादेषा विषमतासज्जनदुर्जनमध्ये भेदरेखा समुत्पन्ना १ तत्र प्रत्युत्तरमिदम्='नेदं चाऽद्भुतम्' इदं चाश्चर्यजनकं न यतः इन्दुदीधितिपिवाः, भृशं प्रीताश्चकोरा:-चन्द्रकिरणामृतपायिनोऽत्यन्तमानन्दप्रीतिप्रमोदप्रमेदुराश्चकोरनामकपक्षिणो भवन्ति, बनेति खेदे, अमृतकिरणोदयेऽपि तरुणाश्चक्रवाकनामकपक्षिणम्तु किमत्यन्त शोकातुराः न स्युः १, अर्थात् प्राचुर्येण खेददुःखिनो भवेयुरेवेति ॥५॥ -न प्रमदावहा तनुधियां गूढा कवीनां कृतिः For Private & Personal use only ॥५५८॥ Jain Education Internal www.jainelibrary.org

Loading...

Page Navigation
1 ... 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616