________________
अध्यात्म
सार:
||२९||
-अन्योऽन्यसहकारित्वेन तथाभव्यत्वपाक-कर्मलाघव-सम्पगुदर्शनःविगुणाः समुदितत्वेन मोक्ष प्रति हेतवः
तथाभन्यतयाऽऽक्षेपाद् गुणा न च न हेतवः।
अन्योऽन्यसहकारित्वाद, दण्डचक्रभ्रमादिवत् ॥७॥ टीका:-ननु आक्षेपकतथामन्यतया सम्यगदर्शनादिभावा आक्षिप्यमाणा भवन्ति, तथाऽपि मोक्षं प्रति तत् सम्यगदर्शनादयः कथं कारणं ? सम्यग्दर्शनादिभावान् य आक्षिपति स तथामव्यत्वादिरेव हेतुः । स्वीक्रियताम् . मोक्षं प्रति सम्यग्दर्शनादिहेतु मा स्वीक्रियतामिति चेन्न, तथाभन्यत्वपरिपाकः, कर्मलघुता च तथा सम्यग्दर्शनादयश्च गुणाः सर्वेऽन्योऽन्यसहकारित्वेन हेतवो भूत्वैव मोक्षकार्यमुत्पादयन्ति, यथा दण्डचक्रभ्रम्यादयः सर्वे सम्भूय घटकार्यमुत्पादयन्ति तथाऽत्रापि ज्ञेयम् , अर्थाद्घटं प्रति दण्डेनोत्पद्यमानायाश्चक्र भ्रमः कारणता न निषेच्या, तथा मोक्षं प्रति तथामव्यत्वादितो जायमानसम्यग्दर्शनादेः कारणताऽपि कथं प्रतिषेच्या म्यादपितु नेव प्रतिषेच्या स्यादिति ॥ ८७ ॥
-भवक्षयं प्रति ज्ञानदर्शमचारित्राण्युपायाः
॥२९॥
in Edan inte
For Private & Personal use only
www.jainelibrary.org