Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 591
________________ बध्यात्म ॥५५५॥ -सज्जनाः कृपातः सुकविकृतग्रन्थार्थान् प्रथयन्ति'ग्रन्थार्थान् प्रगुणीकरोति सुकविः, यत्नेन तेषां प्रथामातन्वन्ति कृपाकटाक्षलहरीलावण्यतः सज्जनाः । माकन्दद्रुममंजरीं वितनुते, चित्रा मधुश्रीस्तथा । सौभाग्यं प्रथयन्ति पञ्चमचमत्कारेण पुस्कोकिलाः ॥२॥ टी. 'सुकविः' काव्यकरणदक्षोऽपि सद्गुणाऽन्वितः, 'यत्नेन ग्रन्थार्थान् प्रगुणीकरोति' काव्यमध्ये ग्रन्थविषयकार्थान यत्नपूर्वकं सचिनोति-समुदितान करोति, तदनन्तरं 'सज्जनाः कृपाकटाक्षलहरीलावण्यतम्तेपा प्रथामातन्वन्ति' सौजन्यविशिष्टाः शिष्टाः पुरुषाः कृपाकटाक्षरूपलहरीजातवात्सल्यरूपलावण्यास्तेपा-ग्रन्थार्थानां प्रथा-प्रसिद्धिं कुर्वन्ति ____ 'चित्रा मधुश्रीः माकन्दद्रुममञ्जरी वितनुते अद्भुता वसन्ततु सुषमा सहकारतरुवरे मञ्जरी करोति-उत्पादयति, ततः 'पुस्कोकिलाः पञ्चमचमत्कारेण सौभाग्यं प्रथयन्तिः पुंस्त्वविशिष्टाः कोकिलाः, पञ्चमस्वरस्य चमत्कारेण-तन्मञ्जरीहेतु कपञ्चमस्वरनिष्ठमाधुर्यातिशयेन सहकारस्य सौभाग्यं-सुभमताया महिमानं विस्तारयन्ति ॥२॥ ॥५५५॥ Jain Education Intemayo For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616