Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 585
________________ अध्यात्म सार: ॥५४९॥ भक्ति भगवति धार्या, सेव्यो देशः सदा विविक्तश्च । स्थातव्यं सम्यक्त्वे, विश्वस्यो न प्रमादरिपुः ॥४३॥ ध्येयाऽऽत्मबोधनिष्ठा, सर्वत्रैवागमः पुरस्कार्यः । त्यक्तव्याः कुविकल्पाः, स्थेय वृद्धानुवृत्त्या च ॥४४|| साक्षात्कार्य तत्त्वं, चिद पानन्दमेदुरै र्भाव्यम् ।। हितकारी ज्ञानवता-मनुभववेद्यः प्रकारोऽयम् ॥४५॥ (१) 'लोके न कोऽपि निन्द्यः' जगति वा जगद्वर्तिनि जने कस्यचिदपि निन्दा-परपरीवादो मात्सर्यमिश्रितं पराक्ष परस्य दोषकीर्तनं वा न कर्त्तव्यम् , (२) 'पापिष्वपि भवस्थितिश्चिन्त्या' क्रूरघोरपापकर्मकारकात्मस्वपि तिरस्कारं तिरस्कृत्य 'तेषां तादृशी भवस्थितिरस्तीति मनसि परामर्शः कार्यः, यतः यथा भवस्थिति जीवः कर्म करोति, कर्मकृति प्रति भवस्थिति हेतु भवति (३) 'पूज्या गुणगरिमाढ्याः' गुणानपेक्ष्य गुरुत्वसमृद्धाः पूज्या:-यथाशास्त्रं पूजनीयाः, अत एव कथ्यते 'गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः' (४) धार्यों रागो गुणलवेऽपि'=गुणस्य लवो-लेशो यत्र तत्र गुणलवेऽपि पुरुषे, परमाणुरूपे ॥५४९॥ Jain Education Inter For Private & Personal use only www.iainelibrary.oro

Loading...

Page Navigation
1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616