Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 139
________________ 00000000000099990000000 द्रष्टणां तदुत्पत्तिस्तीर्थकृतामतिशयबलादेवाहारनीहारविधेरदृश्यत्वात्सामान्यकेवलिभिस्तु विविक्तदेशे तत्करणादुक्तं च "नं षष्ठो यतस्तस्मिन् क्रियमाणे तस्यैव जुगुप्सा संपद्येताऽन्येषां वा? न तावत्तस्यैव भगवतो निर्मोहत्वेन जुगुप्साया असंभवात्, अथान्येषां तत्किं मनुजामरेन्द्रतद्रमणीसहस्रसङ्घलायामनंशुके भगवत्यासीने सा तेषां न सञ्जायते, अथ भगवतः सातिशयत्वान्न तन्नाम्यं तेषां तद्धेतुस्तर्हि तत एव तन्नीहारस्य चर्मचक्षुषामदृश्यत्वान्न दोषः, सामान्यकेवलिभिस्तु विविक्तदेशे तत्करणादोषाभाव इति" यत्तु “तित्थयरातप्पिअरो हलधरचक्की य वासुदेवा य । मणुआण भोगभूमी आहारोणत्थिणीहारो"इति वचनात् तीर्थङ्करादीनां आहारकालेऽपि न नीहारजुगुप्सितमिति, तत्किमतिशयबलाजाठरानलोद्रेकाद्वानाद्यस्तादृशातिशयाश्रवणात्, साधारण्येनातिशयत्वायोगाद, अतिशयेनापि दृष्टकार्यकरणेऽदृष्टकारणोपजीवनाद्वितीयपक्षाश्रयणावश्यकत्वाच्च, न द्वितीयस्तादृशजाठरानलेन भस्मकवदाहारमात्रभस्मीकरणप्रसङ्गादथाहारपर्याप्ती रसीभूतमाहारं धातुरूपतया परिणमयति, खलरसीकृतं तु जाठरानलो भस्मीकरोतीति न दोष इति चेन्नाहारपर्याप्तिसहकृतजाठरानलस्य रसीभूताहारपरिणतिविशेष एव नियामकत्वादन्यथा तत्कालेऽपि जाठरानलोद्भूतस्पर्शस्य जागरूकत्वेनाहारभस्मीभावप्रसङ्गादाहारपर्याप्तिजन्यरसपरिणामस्य जाठरानलजन्याहारदाहप्रतिबन्धकत्वादिकल्पने गौरवादू, एतेन तप्तायोगोलके जल मिव तजाठरानलेऽशितमिति (मपि) भस्मीभवतीति पामरोपन्यस्तो दृष्टान्तः परास्तः। किञ्चैतादृशाप्रामाणिकातिशयकल्पने आहारं विनापि शरीरस्थितिप्रयोजक एवातिशयः कुतो न कल्प्यते, मोहे सत्याहारावश्यंभाव इत्येनं नियममुल्लध्य न तत्कल्प्यत इति चेत् कवलाहारे सति निर्हारावश्यंभाव इत्येनं BOOG03903033333333333 Jain Education For Private & Personel Use Only M ainelibrary.org

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240