Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 187
________________ 00000000000000000000000 तीति कथम् बहुलपापप्रकृतिपराभूतानां तासां परमपुण्यप्राग्भारलभ्या परमानन्दसम्पदुदेतु, अपिच-स्त्रियस्तावत्सप्तमनरकपृथ्व्यां न गच्छन्तीत्यावयोः समानं, तच्च तासां तादृशपापपरिणामप्रकर्षविरहादेव सङ्गच्छते, एवं च तासां तादृशपुण्यपरिणामप्रकर्षोपि न संभवतीति कथं तं विना मोक्षावाप्तिः ? एवं सप्तमनरकपृथ्वीगमनायोग्यतया तासु वज्रर्षभनाराचसंहननमपि न स्वीक्रियत इति कथं तदेकसाध्या सिद्धिस्तासामिति सङ्ग्रेपः॥ १६१॥ अथैतन्निरसितुमाहतम्मिच्छं वेयखओ सरीरनिवत्तिनियमणियउत्ति । चरणविरहाइआ पुण सवे तह हेयवोऽसिद्धा॥१२॥ तन्मिथ्या वेदक्षयः शरीरनिर्वृत्तिनियमनियत इति । चरणविरहादिकाः पुनः सर्वे तव हेतवोऽसिद्धाः ।। १६२ ॥ थीलिङसिद्धा इत्यत्र यत्तावद्विपरीतव्याख्यानं दिगम्बरेण कृतं तत्किं सूत्राशातनाभयात्, स्वपरिकल्पितोत्सूत्राशातनाभयाद्वा, आद्ये सूत्राशातनाभयाद्विभ्यचूयाशातनाभयात् कुतो न बिभेति, न खलु राजानमासेवमानस्यापि महामन्त्रिणोऽपराध्यतोन तत्प्रयुक्तः पराभवोऽन्त्ये तु स्वैरमुन्मत्तकेलीविलसितप्रायं व्याख्यानमेतत्, वेदक्षयस्य शरीरनिर्वत्तिनियमनियतत्वात् तथाहि-यदि पुरुषः प्रारम्भकः तदा पूर्व नपुंसकवेदं, ततः स्त्रीवेदं, ततो हास्यादिषटुं क्षपयति, ततः पुरुषवेदं च खण्डनयं कृत्वाखण्डद्वयं युगपत् क्षपयति, तृतीयखण्डं तु संज्वलनक्रोधेप्रक्षिपति, यदि च स्त्रीप्रारम्भिका ततः प्रथमं नपुंसक एव प्रारम्भकः तदासौ प्रथमं स्त्रीवेदं, ततः पुरुषवेदं, ततः षटुं, ततो नपुंसकवेदमिति, एवं च शरीरनिर्वृत्तिनियमनियते वेदक्षये पुरुष एव सिद्ध्यति न स्त्रीत्यज्ञानविलसितमेतत्, उदीर्णस्यैव वेदस्य पूर्व क्षयस्ततोनु-पू दीर्णयोरित्येव नियम इतिचेन्न, कल्पनामात्रेण नियन्तुमशक्यत्वात् , अभिहितक्रमस्य दुरतिक्रमत्वादू, एतेन पश्चात्क्षीण त्यत्र यत्तावद्विपरीतव्याख्यात इति । चरणविरहादिकाः पुनः स स्वतह हेयवोऽसिद्धा ॥ १६२ 9000000000000000000000000 Jain Education For Private Personal use only hainelibrary.org

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240