Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 191
________________ 000000000000000000000000 सिद्धं च ज्ञानहीनत्वमपि, एतेन स्त्रियो न निर्वाणभाजः विशिष्टपूर्वाध्ययनानधिकारित्वादभव्यवदित्यपास्तम् , एवं लब्ध्यपेक्षया हीनत्वमपि तासां न प्रतिकूलं, वादविक्रियाचारणादिलब्धिहेतुसंयमविशेषविरहे कथं तासां तदधिकमोक्षहेतुतत्सत्त्वमिति हि परस्याशयः, सोऽयं दुराशयः,माषतुषादीनां लब्धिविशेषहेतुसंयमाभावेपि मोक्षहेतुतच्छवणात्, क्षायोपशमिकलब्धिविरहेपि क्षायिकलब्धेरप्रतिघातात्, अन्यथावधिज्ञानादिकमुपमृद्य केवलज्ञानस्याप्रादुर्भावप्रसङ्गात्, यच्च न तु लब्धीनां संयमविशेषहेतुकत्वमागमिक, कर्मोदयक्षयक्षयोपशमोपशमहेतुकतया तासां तत्रोदितत्वादित्याद्युक्तं तत्सामान्याभिप्रायेण, चक्रवर्तिबलदेववासुदेवत्वादिप्राप्तयोपि हि लब्धयो न च संयमसद्भावनिबन्धना तत्माप्तिरित्यग्रिमग्रन्थपर्यालोचनया तथालाभात्, अन्यथा कफविपुण्मलामर्शेत्यादिना लब्धीनां योगजन्यत्वप्रतिपादनानुपपत्तेः, अपिच लब्धिहीनत्वमपि तस्यामसिद्धम् , चक्रवादिलब्धिविरहेपि आमशौषध्यादीनां भूयसीनां भावात् , न च सर्वलब्धिसंपन्नत्वं कस्यापि संभवति, मुक्तिगामिनि वासुदेवत्वलब्धिहीनत्वात्, न च क्षायोपशमिकादिसकललब्धिसंपन्नत्वमप्येकस्य सम्भवति, नानाजन्तुपरिणामवैचित्र्याधीनवैचित्र्याणां तासामेकत्रासम्भवात् , एतेन कर्मक्षये क्षायोपशमिकलब्धिमात्रमुदेतीति कस्यचिन्मतमपास्तम् , क्षयजनकानामध्यवसायानां क्षयोपशमजनकरध्यवसायैरत्यन्तसाजात्यविरहात् अत एवोक्तं " उदयखयखओवसमोवसमसमुत्था बहुप्पगारा उ। एवं परिणामवसा लद्धीओ हुँति जीवाणं ति" ऋद्ध्यपेक्षयापि न तासां हीनत्वं, रत्नत्रयसाम्राज्य सत्याध्यात्मिकीमृद्धिमाश्रित्य तदसिद्धेः, बाह्य_पेक्षयाऽमहर्द्धि-12 कत्वादन्यथा तीर्थकराद्यपेक्षयाऽमहर्द्धिका गणधरादयो न सिद्धिसौधमध्यासीरन् । अथ यजातीये न परममहर्द्धिकत्वं ஒFOGGGGGGEOGGE Jain Education onal For Private & Personel Use Only How.jainelibrary.org

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240