Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अध्यात्म
परीक्षावृ०
YOG0ccc0000000000000000
ज्ञानेन मिथ्याज्ञानादिनाशक्रमेणैव तदुत्पत्त्यभ्युपगमात् रागद्वेषविलयस्य तद्धेतुत्वमवश्यमभ्युपेयम् , यैरपि कर्मण एव प्राधान्येन मुक्तिहेतुत्वमभ्युपेयते,तैरपि तत्कर्मणो रागद्वेषनाशत(शा)दुत्पत्तिरभ्युपेया, हेतूच्छेदे पुरुषव्यापारात्, येऽपि स्याद्वादामृतपानपीनहृदया ज्ञानकर्मणोः समुच्चित्य मोक्षकारणत्वमाहुः, तेपि ताभ्यां रागद्वेषविलयेन वीतरागत्वप्राप्त्यैव तदुत्पत्तिमाहुः, ततस्तदुभयक्षयादेव मोक्षोत्पत्तिरिति सर्वेषामभिमतम् , तथाच तद्विजयोपाय एव प्रवर्तितव्यम् , ज्ञाननिष्ठतया, क्रियानिष्ठतया, तपोनिष्ठतया, एकाकितयाऽनेकाकितया वा येन येनोपायेन माध्यस्थ्यभावना समुज्जीवति, सस एवोपायः सेवनीयो, नात्र विशेषाग्रहो विधेयो, नहि समुपस्थिते कार्ये इष्टदेशं यियासुरनुपस्थितगजारोहायव प्रतीक्षते नतूपस्थितमपि तुरगं नारोहतीति, तस्मादेनामेव भगवतः परमाज्ञामवगम्य तदाराधना विधेया, तयैव सर्वार्थसिद्धेरिति सर्वमवदातम् ॥ १८३ ॥ निबन्धसिद्धिं विनिवेद्य शोधयितुं विशेषज्ञानभ्यर्थयतेअज्झप्पमयपरिक्खा एसा सुत्तीहिं पूरिया जुत्ता।सोहंतु पसायपरा तं गीयत्था विसेसविऊ॥१८४॥(स्पष्टा)
ग्रन्थप्रशस्तिः। एतां वाचमुवाच वाचकवरो वाचंयमस्याग्रणीरस्या एव च भाष्यकृत्प्रभृतयो निष्कर्षमातेनिरे। एतामेव वहन्ति चेतसि परब्रह्मार्थिनो योगिनो, रागद्वेषपरिक्षयाद्भवति यन्मुक्तिर्न हेत्वन्तरैः॥१॥ लावण्योपचयो यथा मृगदृशः कान्तं विना कामिनं, भैषज्यानुपशान्तभस्मकरुजः सद्भक्ष्यभोगो यथा । अप्रक्षाल्य च पङ्कमङ्कसिचये कस्तूरिकालेपनम् , रागद्वेषकषायनिग्रहमृते मोघप्रयासस्तथा ॥२॥
COOOOO0000566000000GGGOC
॥१०५॥
Jain Education
a
l
For Private Personel Use Only
jainelibrary.org

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240