Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 223
________________ 000000000000000000000000 आत्मध्यानकथार्थिनां तनुभृतामेता गिरः श्रोत्रयोः, श्रीमजैनवचोऽमृताम्बुधिसमुद्भूताः सुधाबिन्दवः । एता एवच नास्तिकस्य नितरामास्तिक्यजीवातवः; सन्तप्तत्रपुसम्भवद्रवमुचः पीडाकृतः कर्णयोः ॥ ३ ॥ आशाः श्रीमदकब्बरक्षितिपतिश्चित्रं द्विषद्भामिनीनेत्राम्भोमलिनाश्चकार यशसा यस्ताः सिताः प्रत्युत । एकः सैन्यतुरङ्गनिष्ठुरखुरक्षुण्णां चकार क्षमामन्यस्तां हृदये दधार तदपि प्रीतियोः शाश्वती ॥४॥ स श्रीमत्तपगच्छभूषणमभूद्भूपालभालस्थलव्यावलगन्मणिकान्तिकुङ्कमपयःप्रक्षालिताघ्रिद्वयः। षट्खण्डक्षितिमण्डलप्रसृमराखण्डप्रचण्डोल्लसत्पाण्डित्यध्वनदेकडिण्डिमभरः श्रीहीरसूरीश्वरः॥५॥ स्वैरं स्वेहितसाधनीः प्रसृमरे स्वीयप्रतापानले, वाग्मन्त्रोपहृता विपक्षयशसामाधाय लाजाहुतीः। यो दुर्वादिकुवासनोपजनितं कष्टं निनाय क्षयं, स श्रीमान्विजयादिसेनसुगुरुस्तत्पट्टरत्नं बभौ ॥६॥ धारावाह इवोन्नमय्य नितमा यो दक्षिणस्यामपि, स्वैरं दिक्षु ववर्ष हर्षजननीर्विद्वत्पदाख्या अपः। तत्पट्टत्रिदशाद्रितुङ्गशिखरे शोभा समग्रां दधत् , स श्रीमान्विजयादिदेवसुगुरुः प्रद्योतते साम्प्रतम् ॥ ४॥ यद्गाम्भीर्यविनिर्जितो जलधिरप्युल्लोलकल्लोलभृत् , राज्ञे सर्वमिदं निवेदयति किं व्याकीर्णलम्बालकः। तत्पट्टोदयपर्वतेऽभ्युदयिनः पुष्णाति पूष्णस्तुलां , स श्रीमान् विजयादिसिंहसुगुरुः सौभाग्यभाग्यैकभूः ॥८॥ गच्छे स्वच्छतरे तेषां, परिपाट्योपतस्थुषाम् । कवीनामनुभावेन, नवीनां कृतिमादधे ॥९॥ *SAFEGOGOOGESTEROOFESSEE Jain Educatiome For Private Personal use only w.jainelibrary.org

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240