SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ 000000000000000000000000 आत्मध्यानकथार्थिनां तनुभृतामेता गिरः श्रोत्रयोः, श्रीमजैनवचोऽमृताम्बुधिसमुद्भूताः सुधाबिन्दवः । एता एवच नास्तिकस्य नितरामास्तिक्यजीवातवः; सन्तप्तत्रपुसम्भवद्रवमुचः पीडाकृतः कर्णयोः ॥ ३ ॥ आशाः श्रीमदकब्बरक्षितिपतिश्चित्रं द्विषद्भामिनीनेत्राम्भोमलिनाश्चकार यशसा यस्ताः सिताः प्रत्युत । एकः सैन्यतुरङ्गनिष्ठुरखुरक्षुण्णां चकार क्षमामन्यस्तां हृदये दधार तदपि प्रीतियोः शाश्वती ॥४॥ स श्रीमत्तपगच्छभूषणमभूद्भूपालभालस्थलव्यावलगन्मणिकान्तिकुङ्कमपयःप्रक्षालिताघ्रिद्वयः। षट्खण्डक्षितिमण्डलप्रसृमराखण्डप्रचण्डोल्लसत्पाण्डित्यध्वनदेकडिण्डिमभरः श्रीहीरसूरीश्वरः॥५॥ स्वैरं स्वेहितसाधनीः प्रसृमरे स्वीयप्रतापानले, वाग्मन्त्रोपहृता विपक्षयशसामाधाय लाजाहुतीः। यो दुर्वादिकुवासनोपजनितं कष्टं निनाय क्षयं, स श्रीमान्विजयादिसेनसुगुरुस्तत्पट्टरत्नं बभौ ॥६॥ धारावाह इवोन्नमय्य नितमा यो दक्षिणस्यामपि, स्वैरं दिक्षु ववर्ष हर्षजननीर्विद्वत्पदाख्या अपः। तत्पट्टत्रिदशाद्रितुङ्गशिखरे शोभा समग्रां दधत् , स श्रीमान्विजयादिदेवसुगुरुः प्रद्योतते साम्प्रतम् ॥ ४॥ यद्गाम्भीर्यविनिर्जितो जलधिरप्युल्लोलकल्लोलभृत् , राज्ञे सर्वमिदं निवेदयति किं व्याकीर्णलम्बालकः। तत्पट्टोदयपर्वतेऽभ्युदयिनः पुष्णाति पूष्णस्तुलां , स श्रीमान् विजयादिसिंहसुगुरुः सौभाग्यभाग्यैकभूः ॥८॥ गच्छे स्वच्छतरे तेषां, परिपाट्योपतस्थुषाम् । कवीनामनुभावेन, नवीनां कृतिमादधे ॥९॥ *SAFEGOGOOGESTEROOFESSEE Jain Educatiome For Private Personal use only w.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy