SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ अध्यात्म परीक्षावृ० YOG0ccc0000000000000000 ज्ञानेन मिथ्याज्ञानादिनाशक्रमेणैव तदुत्पत्त्यभ्युपगमात् रागद्वेषविलयस्य तद्धेतुत्वमवश्यमभ्युपेयम् , यैरपि कर्मण एव प्राधान्येन मुक्तिहेतुत्वमभ्युपेयते,तैरपि तत्कर्मणो रागद्वेषनाशत(शा)दुत्पत्तिरभ्युपेया, हेतूच्छेदे पुरुषव्यापारात्, येऽपि स्याद्वादामृतपानपीनहृदया ज्ञानकर्मणोः समुच्चित्य मोक्षकारणत्वमाहुः, तेपि ताभ्यां रागद्वेषविलयेन वीतरागत्वप्राप्त्यैव तदुत्पत्तिमाहुः, ततस्तदुभयक्षयादेव मोक्षोत्पत्तिरिति सर्वेषामभिमतम् , तथाच तद्विजयोपाय एव प्रवर्तितव्यम् , ज्ञाननिष्ठतया, क्रियानिष्ठतया, तपोनिष्ठतया, एकाकितयाऽनेकाकितया वा येन येनोपायेन माध्यस्थ्यभावना समुज्जीवति, सस एवोपायः सेवनीयो, नात्र विशेषाग्रहो विधेयो, नहि समुपस्थिते कार्ये इष्टदेशं यियासुरनुपस्थितगजारोहायव प्रतीक्षते नतूपस्थितमपि तुरगं नारोहतीति, तस्मादेनामेव भगवतः परमाज्ञामवगम्य तदाराधना विधेया, तयैव सर्वार्थसिद्धेरिति सर्वमवदातम् ॥ १८३ ॥ निबन्धसिद्धिं विनिवेद्य शोधयितुं विशेषज्ञानभ्यर्थयतेअज्झप्पमयपरिक्खा एसा सुत्तीहिं पूरिया जुत्ता।सोहंतु पसायपरा तं गीयत्था विसेसविऊ॥१८४॥(स्पष्टा) ग्रन्थप्रशस्तिः। एतां वाचमुवाच वाचकवरो वाचंयमस्याग्रणीरस्या एव च भाष्यकृत्प्रभृतयो निष्कर्षमातेनिरे। एतामेव वहन्ति चेतसि परब्रह्मार्थिनो योगिनो, रागद्वेषपरिक्षयाद्भवति यन्मुक्तिर्न हेत्वन्तरैः॥१॥ लावण्योपचयो यथा मृगदृशः कान्तं विना कामिनं, भैषज्यानुपशान्तभस्मकरुजः सद्भक्ष्यभोगो यथा । अप्रक्षाल्य च पङ्कमङ्कसिचये कस्तूरिकालेपनम् , रागद्वेषकषायनिग्रहमृते मोघप्रयासस्तथा ॥२॥ COOOOO0000566000000GGGOC ॥१०५॥ Jain Education a l For Private Personel Use Only jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy