Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
T
hu tu da toàn thể
विसयसुहेसु ण रजह सबत्थामेण उजमइत्ति” एवं संयमप्रवृत्तिरेवासन्नसिद्धिकत्वस्य तद्व्यापकभव्यत्वस्य च,0 व्याप्यव्याप्यस्य सुतरां व्याप्यत्वात् , तथाच तज्ज्ञानमेव विशेषदर्शनतया तद्विपरीतदीर्घसंसारित्वाभव्यत्वशङ्कानिवर्तकमिति, ततस्तन्निवृत्तौ निराबाधा मोक्षोपाये प्रवृत्तिः, अथ प्रवृत्त्युत्तरं तद्ज्ञानेन विशेषदर्शनेन प्रतिबन्धकशङ्कानिवृत्तिस्तन्निवृत्तौ च प्रतिबन्धकाभावघटितसामग्रीसाम्राज्येन प्रवृत्तिरित्यन्योन्याश्रय इति चेन्न, तथाप्रवर्त्तमानानामन्येषामासन्नसिद्धिकत्वं निश्चित्य तद्वचाप्यतजातीयत्वस्य स्वस्मिन्प्रतिसन्धानेनोक्तशङ्कानिवृत्त्या प्रवृत्तेरबाधात्, अथवा भोगेच्छानिवृत्तिरूपं वैराग्यं तन्निवर्तकासंयमद्वेषो वासन्नसिद्धिकत्वव्याप्यत्वेन प्रतिसंहित उक्तशङ्कानिवर्तक इति न किञ्चदनुपपन्नम् , वस्तुतस्तु भव्याभव्यत्वशङ्कव स्वसंविदिता भव्याभव्यत्वशङ्काप्रतिबन्धिका, तस्या एव भव्यत्वव्याप्यत्वात् , तदुक्तमाचारटीकायां-"अभव्यस्य भव्याभव्यत्वशङ्काया अभावादिति” अथ न व्याप्यं शङ्काप्रतिबन्धकं किन्तु तदर्शनं, तथाच न शङ्का प्रतिबन्धिका किन्तु तद्ज्ञानमितिचेन्न, स्वसंविदितायास्तस्या एव तद्ज्ञानरूपत्वात् , अथ स्वरूपसद्व्याप्यज्ञानं न प्रतिवन्धकं किन्तु व्याप्यत्वेन तदूज्ञानम् , न च पुरुषत्वव्याप्यस्वरूपसत्पुरुषत्वज्ञानेऽपि पुरुषत्वाभावशङ्कानिवृत्तेरनुभवबलेन स्वरूपसद्वयाप्यज्ञानस्यैव शङ्का निवर्त्तकमितिवाच्यम्, अव्याप्येपि व्याप्यत्वेन भ्राम्यतस्तथाप्यत्वप्रकारकधर्मज्ञानात्तद्विपरीतशङ्कानिवृत्तेयाप्यत्वप्रकारकव्याप्यज्ञानस्य शङ्कानिवर्तकत्वात् , नचोपदर्शिता शङ्का स्वस्मिन् भव्यत्वव्याप्यत्वप्रकारिकेति, नेयं तन्निवतिकेतिचेत्तथापि भव्यत्वव्याप्यतादृशशङ्कावानहमिति ज्ञानान्तरेणैव तादृशशङ्कानिवृत्तौ प्रवृत्तिरबाधितैवेति सर्वमवदातम् । एतेन सिद्धौ वा
a te te data tốc
JanEdu१७
For Private 3 Personal Use Only
Jainelibrary.org

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240