Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
0000000000000000000000
तन्त्रं, मैवं “इच्छा हु आगाससमा असंखया” इत्याद्यागमप्रामाण्यबलेन जगत एवाविरुद्धमनसामिच्छाविषयत्वात् , ताव-| द्विषयाणामसिद्धत्वात्, प्रोषितस्य सकलतत्कान्तावलोकनानां स्वरूपतः सिद्धत्वेपि मृतकान्तावलोकनेच्छाऽदर्शनाच्च, अथ सिद्धत्वनिश्चयाभावापेक्षया लाघवादसिद्धत्वज्ञानमेवेच्छाहेतुरिति सिद्धत्वज्ञाने तन्निवृत्ताविच्छानिवृत्तिरितिचेन्न, सामानाधिकरण्येन सिद्धत्वज्ञानस्य सामानाधिकरण्येनासिद्धत्वज्ञानाविरोधित्वात् , सामान्यतः सिद्धत्वप्रमायाश्चासम्भवात्, इदं तु प्रतिभाति-यथा जलपानेन पिपासाकारणतृनिवृत्तौ पिपासानिवृत्तिः एवं स्वकारणाधीनभोगकर्मनिवृत्तावेव भोगेच्छानिवृत्तिस्तत एव च भोगद्वेषः, कथमन्यथा अविरतसम्यग्दृशः संसारसुखे बलवदुःखानुबन्धित्वं प्रतिसन्दधाना अपि न ततो निवर्तन्ते । नन्वेवं भोगेनैव भोगकर्मनाशात् तन्नाशार्थिनस्तत्र प्रवृत्तियुक्तेतिचेत्सत्यम् , यस्तस्य भोगैकनाश्यत्वं कुतोऽपि हेतोनिश्चिनोति तस्य भोगेच्छानिवृत्तये तत्र प्रवृत्तिर्युक्तैव यथा कालदष्टस्य विषभक्षणे, यस्य तु न तथानिश्चयस्तस्य तत्र प्रवृत्तिविपरीतप्रयोजनेतितत्त्वम् ॥ १७३ ॥ अपिच भोगप्रवृत्तेर्भोगनाशः सन्दिग्धः, आयुर्निर्णयस्य कर्तृमशक्यत्वाच्चायतौ योगप्रवृत्तिरपि सन्दिग्धा, प्रतिक्षणमविरतिप्रत्ययिककर्मबन्धश्च बलवदनिष्टसाधनं
भगवद्वचनान्निर्णीतमेवेति कथमेवंविधाभिलाषो विवेकिनामुज्जम्भेतेत्युपदिशति8 को वा जिय वीसासो विजुलयाचंचलंमि आउंमि।सज्जो निरुज्जमो जइ जराभिभूओ कहं होही ॥१७॥
को वा जीव विश्वासो विद्युल्लताचञ्चल आयुषि । सज्जो निरुद्यमो यदि जराभिभूतः कथं भविष्यति भवान् ।। १७४ ।।
000000000ccc00CcOS0GGG006
Jain Education Intel
For Private & Personel Use Only
Mainelibrary.org

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240