Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 217
________________ 00000000000000000000000 यत्वमिति चेन्न, तद्भङ्गतदेकमात्रजीवितस्य गुणमात्रस्य भङ्गात् उक्तंच-"छज्जीवणिकायमहबयाणपरिपालणाइ जइधम्मो । जइ पुण ताइ ण रक्खइ, भणाहि कोणाम सो धम्मो ॥१॥ छज्जीवणिकायदयाविवजिओणेव दिक्खिओ न गिही। जइधम्माओ चुक्को, चुक्कइ गिहिदाणधम्माउत्ति ॥२॥" एतेन तपसो विचित्रकर्मक्षयहेतुत्वात्तेनैव तस्य शुद्धिर्भविष्यतीत्यपि निरस्तम्, न खलून्मूलितमूलस्य महातरोर्महत्योऽपि शाखाः फलं जनयेयुः, नवा जलधौ भग्नपोतस्य पुंसः कीलिकादानेन त्राणं स्यादिति; उक्तंच-"महत्वयअणुवयाई, छड्डउं जो तवं चरइ अन्नं । सो अन्नाणी मूढो, नावाबुड्डो मुणेयबो त्ति ।" एवं च तद्भङ्गे पूर्वपर्यायवाहल्यमप्यकिञ्चित्करं द्रष्टव्यम्, अस्खलितदिनानामेव परिगणनात्, उक्तंच-"ण तहिं दिवसा पक्खा,मासा वरिसा वसङ्गणिजंति। जे मूलउत्तरगुणा, अक्खलिया ते गणिजंतित्ति।” एवं प्रतिबोध्यमानेपि यो न धर्म प्रतिपद्यते, स द्रव्यलिङ्गी मिथ्यादृष्टित्वं भजते, उक्तंच-"सेसा मिच्छद्दिही, गिहिलिङ्गकुलिङ्गदबलिङ्गेहिन्ति ।” एवं च संयमस्य दूरत्वात्तगङ्गे च महापापसम्भवात् देशविरतिप्रतिपत्त्यादिना स्वशक्ति निणीयैव तत्र प्रयतितव्यम् ,प्रतिपन्नस्य च तस्य यतनया यावज्जीवं निर्वाहः कर्त्तव्य इत्युपदेशसर्वस्वम् ॥ १७९ ॥ अथ संयमिनो यत्कार्य यच्च न कार्यं तदाहGR संजमजोगे अब्भुट्टियस्स संचत्तबज्झजोगस्स । ण परेण किंचि कजं आयसहावे णिविट्ठस्स ॥१८॥ संयमयोगेऽभ्युत्थितस्य सन्त्यक्तबाह्ययोगस्य । न परेण किञ्चित्कार्यमात्मस्वभावे निविष्टस्य ॥ १८ ॥ यः खलु संयमयोगेऽभ्युत्थितः स विशिष्टक्रियापरिणतमतिर्यथावसरं परमोपेक्षायामेव निविशते, तस्या एव निर्वाणसुखवर्णिकारूपत्वात् , तस्यां च निविशमानस्यास्य न किञ्चित्परेण कार्यमस्ति, ज्ञानदर्शनचारित्राणां तदानीमात्मस्व GOOGOOGGாடுடுடு १८ Jan Education in For Private Personal Use Only

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240