Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 215
________________ 0 00000000 000000000000000000090 स्तरां पदैकदेशस्य तथात्वमिति चेन्न, सङ्केतविशेषप्रतिसन्धानेन पदैकदेशादप्यर्थप्रत्ययानुभवेन तस्याप्यर्थवत्त्वाद्, अथैवं पामरादिसङ्केतितानामपि शब्दानामर्थवत्त्वं स्यादितिचेत्स्यादेव; साधुत्वं तु तत्र नानुशासनिकत्वरूपं, यत्तु शक्तिलक्षणान्यतरवत्त्वमेव साधुत्त्वमिति, तन्न, घटः पश्येत्यादौ प्रथमाया द्वितीयार्थलक्षणाप्रतिसन्धानेप्यसाधुत्वज्ञाने सति शाब्दबोधानुदयात् , सातत्यवृत्तिरूपत्वेन वृत्तिज्ञानत्वेन शाब्दबोधहेतुतयैव निर्वाहे साधुत्वज्ञानस्य पृथक्कारणता न स्यादिति । अथैवं साधुशब्दानामिवासाधुशब्दानामपि शक्तिः स्यादितिचेत् , स्यादेव, सर्वेषां शब्दानां सर्वार्थप्रत्यायनशक्तिमत्त्वात् , सङ्केतविशेषसहकारेण च विशेषार्थबोधादितिदिग। एवं च यस्य मिथ्यादुष्कृतपदाक्षरानुसारेण तद्दानप्रसूता गर्दा तस्यैव सा फलवतीतरस्य प्रतिज्ञातभङ्गेनातथाकारान्मिथ्यात्वमेव, अतथाकारो हि मिथ्यात्वलक्षणं तदुक्तम्--"जो |जहवायं न कुणइ, मिच्छद्दिडी तओ हु को अन्नो। वड्डेइ य मिच्छत्तं, परस्स संकं जणेमाणोत्ति ।” अत एव च सर्व सावद्ययोगं प्रत्याख्याय पुनस्तदेव सावद्यमाचरतः सर्वविरतिप्रतिज्ञाभङ्गात् ततो भ्रंशः, देशविरतेस्त्वप्रतिज्ञातत्वादेव तल्लाभहीनतोभयविरत्यभावेन च मिथ्यादृष्टित्वं स्यादिति, इदं चाभिनिवेशेन भग्नचारित्रस्य द्रष्टव्यम्, अनभिनि विष्टस्य तु सम्यग्दर्शनकार्यभूतपश्चात्तापादिदर्शनान्न तथात्वं, विरतिवैक्लव्यं तूभयोरपि तदुक्तम्-"सबंति भाणिऊणं, कविरई खलु जस्स सबिया नत्थि । सो सबविरइवाई, चुक्कइ देसं च सर्व च ॥१॥” एतेन साधूनां साधुधर्मायोग्य श्रावकधर्मकरणे श्रावकधर्मानुप्रवेश इति दिगम्बरोक्तिरपास्ता, अप्रतिज्ञाते तत्रानुप्रवेशाभावात्, प्रतिज्ञां विनापि तदूभावे प्रतिज्ञाया वैयर्थ्यप्रसङ्गात्, पूर्वप्रतिज्ञायास्त्वेकदेशरूपाया महाप्रतिज्ञयैव विनाशात् मतिज्ञानादेरिव केवलज्ञा 000000000 Join Education For Private Personel Use Only Jaw.jainelibrary.org

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240