Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 219
________________ संविग्नस्याप्यगीतार्थस्योपदेशादौ नाधिकारः, अती(गी)तार्थस्य बहुजनमध्ये प्रज्ञापनेऽहंदाद्याशातनाप्रसङ्गात् , तस्मात्संविनगीतार्थस्यैव तत्राधिकारो नान्यस्येति स्थितम् , अत एव तादृशस्यैवोपदेशेऽविकल्पे तथाकारः प्रज्ञप्तः यदागमः “कप्पाकप्पे परिणिछियस्स संजमतवड्डगस्स उ । अविगप्पेणं तहकारोत्ति' एवं चान्योपदेशे परीक्षादिविकल्पेन तथाकार इत्युक्तं भवति आह च "इयरंमि विगप्पेणं जं जुत्तिखमं तहिं न सेसंमित्ति” ॥ १८१॥ नन्वेवं धर्मोपदेशादिपरित्यागेनात्मध्यानमात्रव्यापारस्य प्राधान्ये तदनुकूलमेकाकित्वमेव श्रेयो नतु गच्छवासः इत्याशङ्कायां व्यवस्थितपन्थानमाहदवेण जोअणेगो गच्छे सोभावओहवे एगो। एगागी गीओ च्चिअ कयाइ दवेअभावे अ ॥१८॥ द्रव्येण योऽनेको गच्छे स भावतो भवेदेकः । एकाकी गीत एव कदाचिद्रव्ये च भावे च ।। १८२॥ यः खलु गच्छे वसन्नुपचरितासद्भूतव्यवहाराद्रव्यतोऽनेकः स एव गुर्वायुपदेशपरिकर्मितमतिप्रसूतैकत्वभावनापावनान्तःकरणतया भावतोऽप्येकाकित्वं भजतेऽन्यस्तूच्छृङ्खलतया तद्विपरीतामेव भावनां भावयन् द्रव्यत एकाक्यपि भावतोऽनेक एव स्याद्, न खल्वगीतार्थस्य गुर्वादिपारतत्र्यं विना गुणलेशसम्भावनापि,प्रत्युत महानर्थसम्पात एव, स्वच्छजन्दगतिमतिप्रचारेणेच्छाकारादिनियन्त्रितसामाचारीविप्लवात् , कार्याकार्यविवेकवैकल्यात्, सदालम्वनसम्यग्दर्शनशुद्धि| हेतुसूत्रार्थप्रश्नचोदनाद्यसम्भवात् , विनयवैयावृत्त्यादिजनितनिर्जराफलेन वञ्चनात् , मरणान्ते भक्तप्रत्याख्यानादिरूपा-16 राधनाऽसम्भवात्, निर्भयतयैषणाद्युल्लङ्घनाद, एकाकितया निरन्तरं साह(ध्व)सप्रतिपन्थिस्त्रीजनभयप्रसङ्गात,गुर्वादिलज्जाधीनाकार्यचिकीर्षोपरमासम्भवात्, मूर्छादिना विह्वलतयात्मसंयमविराधनाप्रसङ्गात्, शुभाशुभपरिमाणानां झटिति परा 00000000000000000000000 GOOGாமருருருருருருருருபது Jain Education a l For Private Personal Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240