SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ संविग्नस्याप्यगीतार्थस्योपदेशादौ नाधिकारः, अती(गी)तार्थस्य बहुजनमध्ये प्रज्ञापनेऽहंदाद्याशातनाप्रसङ्गात् , तस्मात्संविनगीतार्थस्यैव तत्राधिकारो नान्यस्येति स्थितम् , अत एव तादृशस्यैवोपदेशेऽविकल्पे तथाकारः प्रज्ञप्तः यदागमः “कप्पाकप्पे परिणिछियस्स संजमतवड्डगस्स उ । अविगप्पेणं तहकारोत्ति' एवं चान्योपदेशे परीक्षादिविकल्पेन तथाकार इत्युक्तं भवति आह च "इयरंमि विगप्पेणं जं जुत्तिखमं तहिं न सेसंमित्ति” ॥ १८१॥ नन्वेवं धर्मोपदेशादिपरित्यागेनात्मध्यानमात्रव्यापारस्य प्राधान्ये तदनुकूलमेकाकित्वमेव श्रेयो नतु गच्छवासः इत्याशङ्कायां व्यवस्थितपन्थानमाहदवेण जोअणेगो गच्छे सोभावओहवे एगो। एगागी गीओ च्चिअ कयाइ दवेअभावे अ ॥१८॥ द्रव्येण योऽनेको गच्छे स भावतो भवेदेकः । एकाकी गीत एव कदाचिद्रव्ये च भावे च ।। १८२॥ यः खलु गच्छे वसन्नुपचरितासद्भूतव्यवहाराद्रव्यतोऽनेकः स एव गुर्वायुपदेशपरिकर्मितमतिप्रसूतैकत्वभावनापावनान्तःकरणतया भावतोऽप्येकाकित्वं भजतेऽन्यस्तूच्छृङ्खलतया तद्विपरीतामेव भावनां भावयन् द्रव्यत एकाक्यपि भावतोऽनेक एव स्याद्, न खल्वगीतार्थस्य गुर्वादिपारतत्र्यं विना गुणलेशसम्भावनापि,प्रत्युत महानर्थसम्पात एव, स्वच्छजन्दगतिमतिप्रचारेणेच्छाकारादिनियन्त्रितसामाचारीविप्लवात् , कार्याकार्यविवेकवैकल्यात्, सदालम्वनसम्यग्दर्शनशुद्धि| हेतुसूत्रार्थप्रश्नचोदनाद्यसम्भवात् , विनयवैयावृत्त्यादिजनितनिर्जराफलेन वञ्चनात् , मरणान्ते भक्तप्रत्याख्यानादिरूपा-16 राधनाऽसम्भवात्, निर्भयतयैषणाद्युल्लङ्घनाद, एकाकितया निरन्तरं साह(ध्व)सप्रतिपन्थिस्त्रीजनभयप्रसङ्गात,गुर्वादिलज्जाधीनाकार्यचिकीर्षोपरमासम्भवात्, मूर्छादिना विह्वलतयात्मसंयमविराधनाप्रसङ्गात्, शुभाशुभपरिमाणानां झटिति परा 00000000000000000000000 GOOGாமருருருருருருருருபது Jain Education a l For Private Personal Use Only w.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy