________________
0 00000000
000000000000000000090
स्तरां पदैकदेशस्य तथात्वमिति चेन्न, सङ्केतविशेषप्रतिसन्धानेन पदैकदेशादप्यर्थप्रत्ययानुभवेन तस्याप्यर्थवत्त्वाद्, अथैवं पामरादिसङ्केतितानामपि शब्दानामर्थवत्त्वं स्यादितिचेत्स्यादेव; साधुत्वं तु तत्र नानुशासनिकत्वरूपं, यत्तु शक्तिलक्षणान्यतरवत्त्वमेव साधुत्त्वमिति, तन्न, घटः पश्येत्यादौ प्रथमाया द्वितीयार्थलक्षणाप्रतिसन्धानेप्यसाधुत्वज्ञाने सति शाब्दबोधानुदयात् , सातत्यवृत्तिरूपत्वेन वृत्तिज्ञानत्वेन शाब्दबोधहेतुतयैव निर्वाहे साधुत्वज्ञानस्य पृथक्कारणता न स्यादिति । अथैवं साधुशब्दानामिवासाधुशब्दानामपि शक्तिः स्यादितिचेत् , स्यादेव, सर्वेषां शब्दानां सर्वार्थप्रत्यायनशक्तिमत्त्वात् , सङ्केतविशेषसहकारेण च विशेषार्थबोधादितिदिग। एवं च यस्य मिथ्यादुष्कृतपदाक्षरानुसारेण तद्दानप्रसूता गर्दा तस्यैव सा फलवतीतरस्य प्रतिज्ञातभङ्गेनातथाकारान्मिथ्यात्वमेव, अतथाकारो हि मिथ्यात्वलक्षणं तदुक्तम्--"जो |जहवायं न कुणइ, मिच्छद्दिडी तओ हु को अन्नो। वड्डेइ य मिच्छत्तं, परस्स संकं जणेमाणोत्ति ।” अत एव च सर्व सावद्ययोगं प्रत्याख्याय पुनस्तदेव सावद्यमाचरतः सर्वविरतिप्रतिज्ञाभङ्गात् ततो भ्रंशः, देशविरतेस्त्वप्रतिज्ञातत्वादेव तल्लाभहीनतोभयविरत्यभावेन च मिथ्यादृष्टित्वं स्यादिति, इदं चाभिनिवेशेन भग्नचारित्रस्य द्रष्टव्यम्, अनभिनि
विष्टस्य तु सम्यग्दर्शनकार्यभूतपश्चात्तापादिदर्शनान्न तथात्वं, विरतिवैक्लव्यं तूभयोरपि तदुक्तम्-"सबंति भाणिऊणं, कविरई खलु जस्स सबिया नत्थि । सो सबविरइवाई, चुक्कइ देसं च सर्व च ॥१॥” एतेन साधूनां साधुधर्मायोग्य
श्रावकधर्मकरणे श्रावकधर्मानुप्रवेश इति दिगम्बरोक्तिरपास्ता, अप्रतिज्ञाते तत्रानुप्रवेशाभावात्, प्रतिज्ञां विनापि तदूभावे प्रतिज्ञाया वैयर्थ्यप्रसङ्गात्, पूर्वप्रतिज्ञायास्त्वेकदेशरूपाया महाप्रतिज्ञयैव विनाशात् मतिज्ञानादेरिव केवलज्ञा
000000000
Join Education
For Private
Personel Use Only
Jaw.jainelibrary.org