SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ अध्यात्म परीक्षाव ॥१०२॥ 000000000000000000000000 नेन, अपिच तादृशधर्म साधुराभोगेन कुर्यादनाभोगेन वा, नाद्योऽप्रमादिनस्तादृशप्रवृत्त्यसम्भवात् , न द्वितीयः, अनाभोगस्यातिचारमात्रजनकत्वादभिनिवेशेन तत्करणे च मिथ्यादृष्टित्वमेवेति व धर्मानुप्रवेशः, एतेन श्रावकपदमविरतसम्यग्दृष्टिपरमित्यपि परास्तम्, एवं च प्रतिज्ञाभङ्ग उभयविरतिभ्रंशोऽभिनिवेशे तु मिथ्यात्वं, परस्य शङ्काजननात् मिथ्यात्वाभिवृद्धिः, दीक्षितस्याप्यलीकभाषणेन लौकिकेभ्योऽपि महापापीयस्त्वं उक्तंच-"लोएवि जो ससूगो, अलियं सहसा ण भासए किंचि। अह दिक्खिओ वि अलियं, भासइ तो किंच दिक्खाएत्ति।" तथा वेषमात्रेण पररञ्जनया मायानिकृतिप्रसङ्गः इत्यादयो महान्तोऽना भ्रष्टचारित्रस्य प्रादुष्यन्ति, किंबहुना ? तीव्रक्लेशेनानन्तसंसारानुबन्धोऽपि स्यात् उक्तंच-"संसारो अ अणंतो, भट्ठचरित्तस्स लिंगजीविस्स । पंचमहबयतुंगो, पागारो भिल्लिओ जेणन्ति ।” १७८ एवं च श्रावकत्वमपि सुष्ठुतरम् , न तु दीक्षित्वात्तद्भङ्गेन वेषमात्रोपजीवित्वमित्युपदिशतिचुयधम्मस्स उ मुणिणो सुट्टयरं किर सुसावगत्तंपि । पडियंपि फलंसेयं तरुपडणाओन उच्चपि ॥ १७९॥ च्युतधर्मणो मुनेः सुष्टुतर सुश्रावकत्वमपि । पतितमपि फलं श्रेयस्तरुपतनान्नोधमपि ॥ १७९ ॥ यदा हि महायानपात्रसमानसंसारसागरतारणप्रवणं संयम भग्नमवगच्छति, तदा संसारभीरुः क्षुद्रतरङ्गकल्पमपि श्रावकधर्ममङ्गीकुरुते, नतु निराधार एव वेषमात्रमुपजीवति, संसारपातप्रसङ्गात्, श्रावकत्वेपि अर्हच्चैत्यसुसाधुपूजादानधर्मादेनिस्तारसम्भवात् , उक्तंच-"अरहंतचेइयाणं, सुसाहुपूआरओ दढायारो । सुस्सावओ वरतरं, न साहुवेसेण चुयधम्मोत्ति ।" लिङ्गमात्रोपजीवने तूक्ता एव दोषाः, अथ व्रतभङ्गेपि तस्य धर्मान्तरसम्भवात् कथमित्थं गर्हणी ॥१०२॥ en Education For Private Personal use only
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy