SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ अध्यात्म० ॥ १०१ ॥ | द्रव्य मिथ्यादुष्कृतदानमेव फलवदपितु ? भावमिथ्यादु कृतदानम्, न च तादृशं मर्यादानवस्थितानां पुंसां भवति, तत्र तदक्षरार्थायोगात्तथाहि - 'मि' इत्ययं वर्णः काय भावनम्रतारूपमृदुत्वमाद वार्थः 'छत्ति' असंयमदोषच्छादनार्थः, मीत्ययं 2 चारित्ररूपमर्यादार्थः 'दु' इत्ययं जुगुप्सामि दुष्कृतकर्मकारिणमात्मानमित्यर्थे 'कत्ति कृतं मया पापमित्येवमभ्युपगमार्थे 'ड' इतिच डेवेमि लम्पयामि तदुपशमेनेत्यर्थे तदुक्तं -- “मित्ति मिउमद्दवत्थे, छत्ति अ दोसाण छायणे होइ । मित्तिअ मेराइठिओ, दुत्ति दुगंछामि अप्पाणं ॥ १ ॥ कत्ति कडं मे पावं, डत्ति अ डेवेमि तं उवसमेणं । एसो मिच्छादुक्कडपयक्खरत्थो ॐ समासेणंति ॥ २ ॥ ” नचायमर्थो निर्मर्यादानां सम्भवतीति तेषां निष्फलमेव तद्, अव्युत्पन्नानां तु प्रतिक्रमणादिकं व्युत्पन्न पारतन्त्र्येण धर्मपथप्रवेशमात्रेण च फलवदितिध्येयम्, ननु पदवाक्ययोरेवार्थदर्शनात् कथमक्षराणां प्रत्येकमुक्तार्थतेति चेद्वाक्यैकदेशत्वात्पदस्येव पदैकदेशत्वाद्वर्णानामप्यर्थवत्ता, प्रत्येकमभावे समुदायेपि तदभावात्, सिकतासॐ मुदाये तैलाभाववदिति सम्प्रदायः नन्वेवं पुद्गलस्कन्धरूपवर्णैकदेशानामप्यर्थवत्त्वापत्तिः, किञ्चैवं राम इत्यादौ रकारादीनामप्यर्थवत्त्वेन धातुविभक्तिवाक्यभिन्नत्त्वेन च नामत्वात्तदुत्तरं स्याद्युत्पत्तिप्रसङ्गः, न चार्थवत्पदं शक्त्या अर्थवत्परं आधुनिक सङ्केतितेभ्योऽपि चैत्रादिपदेभ्यः स्याद्युत्पत्तिदर्शनादितिचेन्न, वर्णैकदेशानामपि कथंचिदर्थवत्त्वादर्थवदित्यस्य योगार्थवत् परत्वाच्चैत्रादिशब्दानामपि योगार्थेऽबाधात्, सर्वे शब्दा व्युत्पन्ना एवेति पक्षाश्रयणात्, न च पदैकदेशे © योगार्थः सम्भवतीति न ततः स्याद्व्युत्पत्तिः, ननु शाब्दबोधे पदजन्यपदार्थोपस्थितेरेव हेतुत्वात् पदस्यैवार्थवत्त्वम् नतु वाक्यस्यापि, आकाङ्क्षादिमहिम्नाऽर्थवत्पदेभ्य एवापूर्ववाक्यार्थलाभात् एवं च वाक्यस्यापि नार्थवत्त्वमिति कुत Jain Education Int For Private & Personal Use Only परीक्षा वृ० ॥ १०१ ॥ ainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy