SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ मुल्लेणत्ति ।" ननु तथापि मोक्षेच्छादिरूपप्रवृत्तिसामग्यां सत्यां कर्मदोषादेव न प्रवृत्तिरितिचेन्न, कर्मदोषस्यानिर्णयात्, अविवेकादप्रवृत्तेस्तन्निरासायोपदेशादित्युक्तप्रायम् ॥ १७७ ॥ ननु तथापि दुष्कृतगर्हामात्रेणैव मिथ्यादुष्कृतादिदानात् पापनिवृत्तिर्भविष्यतीत्याशङ्कायामाहजोपावंगरहंतो तं चेव निसेवए पुणो पावं । तस्स गरहावि मिच्छा अतहकारोहि मिच्छत्तं ॥ १७८॥ यः पापं गर्हस्तञ्चैव निषेवते पुनः पापम् । तस्य गर्दापि मिथ्याऽतथाकारो हि मिथ्यात्वम् ॥ १७८ ॥ IoT संयमविषयायां हि प्रवृत्तौ वितथासेवनायां मिथ्यादुष्कृतदानप्रसूता गर्दा दोषापनयनायालं नतुपेत्यकरणगोचरायां, नाप्यसत्करणगोचरायां। उक्तं च-"संजमजोगे अब्भुट्टियस्स जं किचि वितहमायरियं । मिच्छा एयंति वियाणिऊण मि-19 च्छंति कायर्वति ।” अत एव प्रतिक्रमणीयपापकर्माकरणमेवोत्सर्गतः प्रतिक्रमणमुक्तम्-" जइवि पडिक्कमियवं, अवस्स काऊण पावयं कम्मं । तं चेव ण कायवं, तो होइ पए पडिक्कतोत्ति ।" नन्वेवं देशविरतस्य प्रतिक्रमणादिकं न स्यादितिचेन्न, मे पदार्थस्य मर्यादावस्थानरूपस्य तत्राप्यबाधाद्, यस्तु दुष्टान्तरात्मा मर्यादायामनवस्थित एव मिथ्यादुष्कृतं प्रयच्छति | तस्यैव प्रत्यक्षमृषावादादिना तत्फलशून्यत्वादुक्तंच-"जंदुक्कडंति मिच्छा, तं चेव निसेवए पुणो पावं । पच्चक्खमुसावाई, मायानियडीपसंगो यत्ति ।" यस्तु भूयस्तत्कारणमपूरयन्नेव मिथ्यादुष्कृतं दत्ते तस्यैव तत्फलवत्तदुक्तम्-"जं दुक्कडंति | | मिच्छा, तं भुजो कारणं अपूरंतो।तिविहेण पडिक्कतो, तस्स खलु दुक्कडं मिच्छत्ति ।" नन्वतीतस्यैव पापस्य गहों नत्वनागतस्य, तथाचानागतकाले तदासेवनायामपि नातीतपापनिवर्तकस्य मिथ्यादुष्कृतदानस्य निष्फलत्वमितिचेन्न, नहि 305OGGGOOOO333333333GGIO GOGOGOGOOG200095660GGOG Jain Education a l For Private & Personel Use Only A ww.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy